OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 21, 2021

 राष्ट्रपतिः अद्य केरलराज्यम् आगच्छति । 

अनन्तपुरी> भारतस्य राष्ट्रपतिः रामनाथकोविन्दः अद्य दिनत्रयस्य कार्यक्रमाय केरलराज्यं प्राप्नोति। मध्याह्ने १२. ३० वादने सः वायुसेनायाः सविशेषविमाने कण्णूर् प्राप्य ३. ३० वादने पेरियास्थाने केन्द्रविश्वविद्यालयस्य बिरुददानकार्यक्रमे भागं करिष्यति। तदनन्तरं कोच्ची नाविकास्थानं प्राप्स्यति। 

    बुधवासरे प्रभाते ९. ५० वादने दक्षिणमण्डलनाविककमान्डन्ट् इत्यस्य कार्यक्रमे भागं करिष्यति। ततः विक्रान्त् महानौकां संद्रक्ष्यति। 

  गुरुवासरे १०. २०वादने अनन्तपुरीं प्रस्थास्यमाणः राष्ट्रपतिः तत्र पि एन् पणिक्कर् महोदयस्य कांस्यप्रतिमाया‌ अनाच्छादनं करिष्यति। शुक्रवासरे सः दिल्लीं प्रतिनिवर्तयिष्यति।