OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 25, 2021

ओमिक्रोणं प्रतिरोद्घुं वस्त्रांशेन विशेषनिर्मितं मुखकवचम् अपर्याप्तम्। 

 


  लण्डण्> कोविडस्य नूतनविभेदस्य प्रतिरोधाय वस्त्रांशेन दर्शनसुभगतया निर्मितं मुखकवचम् अपर्याप्तम् इति पूर्व सूचना अस्ति। ओक्स्फोड् विश्वविद्यालयस्य प्रोफ. त्रिष् ग्रीन् हर्ग् इत्यनेन एवं पूर्व सूचना प्रदत्ता। पुनरुपयोगाय निर्मितं चित्रवर्णाङ्कितं दर्शनसुभगं मुखकवचं कोविडस्य नूतनं विभेदं प्रतिरोद्‌धुं सक्षमम् न भवति इति उच्यते। निर्माणाय उपयुज्यमानानां वस्त्रस्तराणां गुणमानमनुसृत्य भवति प्रतिरोधक्षमता इति तेनोक्तम्। 95% कणिकाम् अपि प्रतिरोध्तुं क्षमतायुक्तं मुखावरणम् उपयोक्तव्यम् इति तेन स्मारितम्॥