OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 29, 2021

 लुधियाना स्फोटनम्; निरोधितस्य सिख् सघटनस्य प्रधानप्रवर्तकः संगृहीतः।

नवदिल्ली> पञ्चाबे लुधियाना न्यायालयसमुच्चयस्फोटनं संबन्ध्य भारते निरोधितस्य 'सिख् फोर् जस्ट्टिस् ' नाम भीकरसंघटनस्य प्रधान-प्रवर्तकेषु अन्यतमः जस्वीन्तर् सिंह् मुल्ट्टानः जर्मन्याम् एल्फर्टात् संगृहीतः इत्येव प्रतिवेदनम्। तं भारतमानेतुं आवश्यकाः उपक्रमाः   विलम्बं विना आरप्स्यन्ते। भारते बृहत् आक्रमणम् आयोजयितुं तन्त्राणि आविष्कुर्वन्ति इति सूचनाम् आधारीकृत्य एव जर्मन्याः आरक्षकैः मुल्ट्टानः संगृहीतः इति प्रतिवेदनानि व्यनक्ति।