OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 27, 2021

 सूत्रिकानिर्माणयन्त्रागारे स्फोटनम्। षट् जनाः मृताः। बहवः जनाः व्रणिताश्च।

पाट्ना> बीहारे मुसाफर्पुरे सूत्रिकानिर्माणयन्त्रागारे (Noodles factory ) जाते  स्फोटने षट् जनाः मृताः। बहवः जनाः व्रणिताश्च। यन्त्रागारस्थे बाष्पदं (boiler) प्रभज्य एव अपघातः सञ्जातः। स्फोटनस्य ध्वनिः पञ्चकिलोमीट्टर् अतिक्रम्य श्रुतमिति प्रदेशवासिनः अवदन्। मुसाफर्पुरे बेल इन्डस्ट्रियल् अङ्कणे एव यन्त्रागारः वर्तते। स्फोटनस्य आघातेन समीपस्थः पेषणयन्त्रागारः (Mill) अपि भञ्जितः अभवत्। पेषणयन्त्राकारे सुप्तौ द्वौ सेवकौ अपि व्रणितौ। अन्वेषणं समारब्धमिति जनपदस्य न्यायाधिपतिना  (Magistrate) प्रणवकुमारेण प्रोक्तम्।