OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 21, 2021

 ओमिक्रोण् बाधा वर्धते। अभिमुखीकर्तुं  सुसज्जाः भवितव्या: इति एयिंस् अध्यक्षस्य जाग्रतासूचना।

नवदिल्ली> राष्ट्रे कोविड्वैराणोः ओमिक्रोण् नामके नूतनविभेदे वर्धमाने सन्दर्भेऽस्मिन् प्रतिरोधाय  एयिंस् अध्यक्षेण रणदीप् गुलेरियावर्येण जाग्रतासूचना प्रदत्ता।कोविडस्य तृतीयतरङ्गसाध्यतां निराकर्तुम् अशक्ये सन्दर्भे यत्किमपि तत् अभिमुखीकर्तुं सुसज्जाः भवितव्याः इति तेन प्रोक्तम्। भारते अधुना ओमिक्रोण् वैराणुबाधितानां संख्या १७० इति  वर्द्धिता । तथाऽपि इयं घटना यूरोप्प् राष्ट्रवत् अतिकठिनं न भविष्यति इति प्रतीक्ष्यामहे इत्यपि सः उक्तवान् ।