OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 18, 2021

 भूट्टान् सर्वकारस्य सर्वोच्चनागरिक-पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदीने प्रदातुं निर्णयः गृहीतः। 


नवदिल्ली> भूट्टान् सर्वकारस्य 'ओर्डर् ओफ् दि ड्रक् ग्यालूपो' पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदिने दातुं निर्णयः गृहीतः। कोविड् महामारीसन्दर्भे भारतेन प्रदत्तं साहाय्यं पुरस्कृत्य धन्यवादमावेदयित्वा एव पुरस्कारः प्रदत्तः। भूट्टानस्य राजा जिग्मे खेसर् नांग्यल् वाङ्चूक् वर्येण एव पुरस्कारः प्रख्यापितः। भूट्टानस्य ११४ तम राष्ट्रियदिवसमहोत्सवे एव पुरस्कारप्रख्यापनम् कृतम्। भूट्टानस्य सर्वोच्चपुरस्कारबहुमतये स्वनामचयनं कृताय भूट्टान् महाराजाय नरेन्द्रमोदी धन्यवादं समार्पयत्। भूट्टान् राष्ट्रम् भारतस्य प्रियसुहृद्राष्ट्रम् भवति। उभयोः बन्धः सुदृढम् अनुवर्तिष्यते इति मोदिना उक्तम्। भूट्टानाय राष्ट्रियदिनाशंसा अपि मोदिना प्रकाशिता।