OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 23, 2021

 ओमिक्रोण् व्यापनम् - अवधानतया विश्वम्। नियन्त्रणानि पुनस्थापयन् यूरोप्पीयराष्ट्राणि। वाक्सिनस्य चतुर्थमात्रां प्रदातुं इस्रयेलः।

लण्डन्> कोविडस्य नूतनविभेदस्य ओमिक्रोणस्य व्यापनम् अनुवर्तमाने सन्दर्भे अस्मिन् यूरोपीयराष्ट्राणि नियन्त्रणानि पुनस्थापयन्तः वर्तन्ते। जर्मनि, पोर्चुगल्, यु के प्रभृतयः राष्ट्राणि नियन्त्रणानि दृढीकर्तुमारब्धानि। ओमिक्रोण् विभेदस्य व्यापनम् अनुवर्तमाने सन्दर्भे जनेभ्यः वाक्सिनस्य चतुर्थमात्रां प्रदास्यति इति प्रख्यापनमपि इस्रयेलेन कृतम्। भारते कोविडस्य साहचर्यं निर्णेतुं प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उन्नततलमेलनम् आहूतम्। राष्ट्रे इदानीं २१३ ओमिक्रोण् वैराणुबाधिताः सन्ति। डेल्ट्टाविभेदापेक्षया ओमिक्रोण् विभेदः अतिवेगेनैव व्याप्यते। पूर्वं कोविड्रोगबाधितेषु तथा वाक्सिनं स्वीकृतेषु च ओमिक्रोण् वैराणुः व्याप्यते इति विश्वस्वास्थ्यसंस्थायाः जाग्रतासूचनां पुरस्कृत्यैव विश्वराष्ट्राणि पूर्वसज्जीकरणानि विधास्यन्ति।