OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 16, 2021

 षट् चित्रोष्ट्राणां जडशरीराणि एकस्मिन् आबन्धे। अनावृष्टेः भयानकचित्रम्।

नय्रोबि> परस्परसहकारेण मनुष्याः अनावृष्टिम् अत्येतुं प्रभवन्ति। किन्तु वन्यजन्तून् एव अनावृष्टिदोषः अधिकतया बाधते। अधुना केनिया देशे अनावृष्टेः दुष्प्रभावं प्रकाशयितुं सक्षमं चित्रमेकं बहिरागतमस्ति। इद् राम् नामकेन छायाचित्रपत्रकारेण (photo journalist) अनावृष्टेः दुरन्तमुखं आलिखितं चित्रं प्रकाशितम्। दिनानि यावत् अनावृष्टेः आघातेन मृतानां षण्णां चित्रोष्ट्राणां आकाशचित्रम् एव इद् रामस्य छायाग्राह्या आलेखितम्। साबुलि वन्यजीविसंरक्षणकेन्द्रस्थाः चित्रोष्ट्राः एव आहाराभावेन मृताः। अनावृष्टेः दुरन्तमुखम् एकस्मिन् एव आबन्धे द्रष्टुं शक्यते इत्येतत् एव चित्रस्य सविशेषता।