OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 20, 2021

 पिच्छकन्दुकक्रीडायाः विश्ववीरस्पर्धायां भारताय रजतमुद्रा।

ह्युल्वा (स्पेयिन्)> स्पेयिन् राष्ट्रस्य ह्युल्वानगरे सम्पन्नायाः विश्वपिच्छकन्दुकस्पर्धायाः अन्तिमपादे भारतस्य किडम्बि श्रीकान्तः द्वितीयस्थानं प्राप्य रजतकीर्तिमुद्रामाप्तवान्। सिंहपुरस्य (सिङ्कप्पूर्) लो कीन् युः नामकः प्रथमस्थानं प्राप्तवान्। 

  विश्वचषकस्पर्धायां इदंप्रथमतया एव कश्चन भारतीयक्रीडकः अन्तिमपादं प्रविशति। भारतस्य लक्ष्य सेनः अस्यां स्पर्धायां कांस्यपदकं प्राप्तवान्।