OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 4, 2024

 स्वीडने रक्षितॄः प्रति कर्कशनिर्देशः - शिशुभिः  दूरदर्शनं 'वीडियो' इत्यादीनि न दर्शयितव्यानि। 

स्टोक् होम्>  इदानींतनकाले दूरदर्शने समर्थचलदूरवाण्यां वा मनोरञ्जकानि चलनचित्राणि पश्यन्तः एव शिशवः बालकाश्च भोजनं कुर्वन्ति। तावता ते  'डिजिटल्' उपकरणानाम् अधीनाः अभवन्। 

  किन्तु स्वीडनराष्ट्रे तादृशावस्थायाः परिवर्तनं भविष्यति। न्यूनद्विवयस्कान्  शिशून्  येन केनापि कारणेन दूरदर्शनं वा चलदूरवाणीसदृशानि डिजिटल् दृश्यमाध्यमानि च न  दर्शयेयुः इति रक्षिजनाः सर्वकारेण कर्कशरीत्या आदिष्टाः। डिजिटलुपकरणानाम् अमितोपयोगः कौमारवयस्केषु शारीरिकास्वास्थ्येन सह विषादरोगसहितानां मानसिकरोगाणां कारणाय भवतीति तत्रस्थस्वास्थ्यमन्त्रालयेन निगदितम्।

  सोमवासरे बहिर्नीतमादेशमनुसृत्य २ -५ वयस्कानां शिशूनां कृते परमावधि एकहोरा डिजिटल दर्शनाय अङ्गीकृता अस्ति। ६ - १२ वयस्कानां कृते तत् एक-द्वि होरा भवति। १३ - १८ वयस्केभ्यः कुमारेभ्यः २ - ३ होराः डिजिटल दर्शनाय अनुमोदिताः सन्ति।