OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 7, 2024

 उत्तरध्रुवस्थे भारतीयगवेषणकेन्द्रे भारतसंघस्य गवेषणम् आरब्धम्। 

हिमाद्रिकेन्द्रं तत्रस्थाः भारतीयगवेषकाः च। 

संघे त्रयः केरलीयाः। 

कोच्चि> आर्टिक्ध्रुवस्य नोर्वे राष्ट्रस्थे भारतस्य 'हिमाद्रि' नामके केन्द्रे भारतस्य पर्यवेक्षणपरियोजना आरब्धा। भारतसंघे आहत्य अष्ट अङ्गाः सन्ति। तेषु त्रयः केरलीयाः भवन्ति। 

  अमृत विश्वविद्यालयस्य डो  एस् एन् रम्या, चिन्मय विश्वविद्यापीठं विश्वविद्यालयस्य अनुपमा जिम्सः, जयिन् विश्वविद्यालयस्य डो फेलिक्स् एम् फिलिपः इत्येते केरलीयाः। उत्तरध्रुवात् १२०० कि मी दूरे स्थापिते हिमाद्रिकेन्द्रे भारतस्य अष्टाङ्गसंघः सेप्टम्बर् द्वितीयदिने प्राप्तवान्। एकमासं यावत् संघः पर्यवेषणं करिष्यति। 'ग्लेषियर्' नामकहिमानिषु 'पेर्माफ्रोस्ट्' इति हिमखण्डेषु च पर्यावरणस्य स्वाधीनता, आर्टिक् प्रदेशस्य जैववैविध्यं, तत्रस्थं सूक्ष्मजीविवृन्दम् इत्यादिविषयेषु अस्ति तेषां गवेषणम्। 

  २००८ तमे वर्षे आसीत् हिमाद्रिकेन्द्रस्य प्रारम्भः। नोर्वे राष्ट्रस्थे स्वाल् बार्ड् इत्यत्र न्यू अलेसन्ड् नामकद्वीपे इदं केन्द्रं वर्तते।