OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 13, 2024

 केन्द्रसर्वकारेण सप्तति उपरिवयस्केभ्यः आरभ्य निश्शुल्कजीवनरक्षा सुविधायाः अनुमतिः प्रदत्ता।

   नवदिल्ली> राष्ट्रे सप्तति उपरिवयस्केभ्यः आरभ्य सर्वेभ्यः प्रौढजनेभ्यः ' आयुष्मान् भारत् ' नाम राष्ट्रिय जीवनरक्षासुविधायां समावेशनाय अनुमतिः प्रदत्ता। सप्तति उपरिवयस्केभ्यः आरभ्य सर्वेषां कृते निश्शुल्कं प्रतिपरिवारं पञ्चलक्षरूप्यकाणि जीवनरक्षारूपेण दातुं योग्यायाः सुविधायाः अनुमतिः एव प्रदत्ता। एषः प्रक्रमः आराष्ट्रं षट्कोटि प्रौढजनान्तर्गत ४.५ कोटि परिवाराणां प्रयोजनप्रदः भविष्यति।