OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 3, 2024

 आणवायुधयुद्धं कर्तुं न अर्हति, संयमं पालनीयम् इति चीनेन रष्यः स्मारितम्।

   युक्रेन् देशं प्रति आणवायुधयुद्धं कर्तुं न अर्हतीति रष्यां प्रति चीनदेशस्य सूचना। अमेरिकादीनि पश्चिमराष्ट्राणि युक्रेनदेशाय अधिकं साहाय्यं कुर्वन्ति इति स्थितौ, रष्यायाः आणवनयम् परिवर्तयिष्यते इति विदेशकार्यमन्त्री विगतदिने उक्तवान्। सन्दर्भेऽस्मिन् आणवयुद्धस्य स्थितिं गन्तुं न अर्हतीति चीनदेशस्य विदेशकार्य-मन्त्रालयस्य प्रवक्ता माओ निंगः बीजिंगस्थे वार्तासभायाम् अवदत्।

   अस्मान् विरुध्य शत्रवः प्रभूताः सन्ति इति उदीर्य रष्यायाः उप विदेशकार्यमन्त्री सर्जि रियाब्कोवः आणवनयेषु परिवर्तनं नूनं स्यात् इति उक्तवान्। राष्ट्रं प्रति क्वचित् आणवाक्रमणं वा राष्ट्रस्य अस्तित्वस्य कृते भीषा वा कथंचित् विशालम् आक्रमणं वा भवति चेत् आणवायुधं प्रयोक्तुं शक्यते इति रष्यायाः २०२० तमे वर्षे रचितः आणवनयः अस्ति। अस्मिन् नये परिवर्तनम् भविष्यति इति रशियायाः विदेशकार्यमन्त्रालयः संसूचयति।