OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 26, 2024

 'षिरूर् दौत्यस्य' विजयप्राप्तिः।

अर्जुनस्य भारवाहकं शरीरावशिष्टं च अधिगतम्। 

अर्जुनस्य भारवाहके गङ्गावाली नद्याः अधिगते। 

अङ्कोला> ७२ दिनानां प्रार्थनापूर्वकप्रयत्नस्य विजयप्राप्तिः। जूलै १६ तमे दिनाङ्के दुरापन्ने भूस्खलने कर्णाटकस्य षिरूर् जनपदस्थायाः गङ्गावाली नद्याः अगाधतां निपत्य तिरोभूतं भारवाहकं तस्य चालकेन केरले कोष़िक्कोट् प्रदेशीयेन  अर्जुनेन सह  ह्यः अधिगतम्। अर्जुनस्य भौतिकावशिष्टानि  भारवाहकस्य अन्तः लग्नानि आसन्। भारवाहकं भौतिकावशिष्टानि च बन्धुभिः भारवाहकस्वामिना च प्रत्यभिज्ञातानि। 

  मृतदेहांशाः कार्वारस्थे जनपदीयातुरालयं नीताः। डि एन् ए परीशोधनादिकं पूर्तीकृत्य बान्धवेभ्यः दास्यन्ते। केरल-कर्णाटकसर्वकारयोः अधिकारिवृन्दस्य  ऐकमत्येन एकोपनं, अनेकेषां कर्मकराणां सन्नद्धसेवकानां समर्पणपूर्वकं प्रयत्नं च अस्याः सफलतायाः निदानं भवति। तिरोभूतयोः द्वयोरपि अधिगमनाय अन्वेषणम् अनुवर्तिष्यते इति कर्णाटकसर्वकारेण निगदितम्।