OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 24, 2024

 'चतुरङ्ग ओलिम्प्याडे' भारतस्य युगलकिरीटप्राप्तिः। 

चतुरङ्ग ओलिम्प्याडे युगलकिरीटं प्राप्तवत् भारतीयदलम्। 

बुदापेस्ट्> विश्वचतरङ्गक्षेत्रे भारतस्य नूतनाश्वमेधस्य प्रारम्भः। हंगरी राष्ट्रे बुदापेस्ट् राजधानीनगरे सम्पन्ने चतुरङ्गस्य ओलिम्प्याड् स्पर्धासु सामान्यविभागे [Open Category] वनिताविभागे च भारतस्य सुवर्णकिरीटप्राप्तिः। प्रप्पथममेन भारतस्य विभागद्वये विजयः। 

  सामान्यविभागे ११ चक्रेभ्यः २१ अङ्कान् सम्प्राप्य एव भारतं वीरपदं प्राप्नोत्। महिलाविभागस्य अन्तिमचक्रे अज़र्बैजानं पराजित्य १९ अङ्कैः भारतेन प्रथमस्थानं प्राप्तम्। 

  स्पर्धापरम्परायां सर्वत्र अपराजिताः डि गुकेशः, अर्जुन एरिगासि, दिव्या देशमुखः, वन्तिका अगर्वालः इत्येते वैयक्तिकानि सुवर्णपतकानि प्राप्तवन्तः।