OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 18, 2024

 लबनने सिरियायां च विचित्रं 'इलकट्रोणिक्स् स्फोटनं' - १७ मरणानि उपत्रिसहस्रं आहताः। 

बय्रूट्>  लबननदेशे सिरियादेशे च गतदिने दुरापन्ने विचित्रे 'इलकट्रोणिक्स् स्फोटने' १७ जनाः मृत्युमुपगताः। लबनने नव सिरियायां अष्ट च जनाः मृताः इति सूच्यते। उपत्रिसहस्रं जनाः आहताः। 

  हिस् बुल् नामक सायुधसंघप्रवर्तकानां 'पेजर्'नामकवृत्तान्तविनिमययन्त्राणि राष्ट्रे सर्वत्र  एकस्मिन्नेव काले विस्फोटितानि। कश्चन हिस् बुल्  नेता अपि स्फोटने मृत इति सूच्यते।

  हिस्बुल्लां विरुध्य तीव्रमाक्रमणं कारयिष्यतीति इस्रयेलस्य प्रख्यापानन्तरं होराणामाभ्यन्तरे एव स्फोटनं जातमिति इस्रयेलं प्रति सन्देहसूचिः दिश्यते।