OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 19, 2024

 एकं राष्ट्रं एकं निर्वाचनम् इति निर्देशाय  केन्द्रमन्त्रिमण्डलेन अनुमोदनं दत्तम्।

   पूर्वराष्ट्रपतिः रामनाथः कोविन्दः अध्यक्षरूपेण स्थितस्य समितेः प्रतिवेदनाय  केन्द्रमन्त्रिमण्डलेन अनुमोदनं  दत्तम्। एषः विधेयकः शीतकालीने विधानसभा सत्रे प्रस्तूयते इति सूचना अस्ति। अद्य केन्द्रमन्त्रिमण्डलेन महत्त्वपूर्ण: निर्णय: स्वीकृत: इत्येतत् विशेषतया अत्र उल्लेखनीयं भवति। अस्य निर्णयस्य साहाय्येन २०२६ तमस्य निर्वाचनकाले एव युगपत् निर्वाचनार्थं व्यवस्थाथां  कर्तुं भाजपा-सर्वकारस्य लक्ष्यं अस्ति।

    २०२१ तमे वर्षे 'एकं राष्ट्रं एकं निर्वाचनम्' इति प्रस्तावः समुत्थितः। तदा 

नियममन्त्रिणा भूपेन्द्रयादवेन अध्यक्षरूपेण स्थिता समितिः अस्य विषयस्य पर्यालोचनां कृतवती। अनन्तरं विभिन्नराजनीतिपक्षाणां मतानि श्रुत्वा पूर्व राष्ट्रपतेः रामनाथकोविन्दस्य नेतृत्त्वे स्थिता समितिः प्रतिवेदनं  मार्च् मासे द्रौपदी मुर्मू राष्ट्रपतये समर्पितवती। प्रतिवेदने १८,६२६ पृष्ठानि सन्ति।