OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 5, 2024

 केरले श्रावणोत्सवः - हस्तघोषयात्रा श्वः। 

कोच्ची> केरलराज्ये श्रावणोत्सवस्य शुभारम्भः श्वः  क्रियते। तस्य अंशतया कोच्चीराजनगर्यां  विधत्तमाना 'हस्तघोषयात्रा' शुक्रवासरे विधास्यते। 

  तृप्पूणितुरा नगरसभायाः नेतृत्वे आयोज्यमाना इयं घोषयात्रा तृप्पूणितुरायाः राजवीथिषु हरितव्यवहारव्यवस्थाः परिपाल्य एव प्रचलिष्यति। ५९ संख्याकानि कलारूपाणि भविष्यन्ति। 

  श्वः प्रभाते पूर्वेदपुर्यां सर्वकारीयबालकविद्यालयाङ्कणे केरलविधानसभाध्यक्षः ए एन् षंसीरः हस्तोत्सवस्य उद्घाटनं करिष्यति। नियममन्त्री पि राजीवः, लोकसभासदस्यः हैबि ईडनः , विधानसभासदस्यः के बाबुः इत्यादयः कार्यक्रमे भागं स्वीकरिष्यन्ति।