OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 10, 2024

  अर्बुदरोगौषधस्य मूल्यं न्यूनं भविष्यति। 

स्वास्थ्य-जीवन योगक्षेमस्य अग्रशुल्कं  तथा पण्य-सेवा-करस्य अपकर्षणस्य विषये च निर्णयः पश्चात् भविष्यति।

  नवदिल्ली> स्वास्थ्य-जीवन योगक्षेमस्य (insurance) अग्रशुल्कं/प्रागर्पितशुल्कं (premium) तथा पण्य-सेवा-करस्य (जी.एस्.टी.) न्यूनीकरणस्य विषये च निर्णयः नवम्बरमासे सम्पत्स्यमाने जी.एस्.टी. परिषदि निर्णयं स्वीकरिष्यति इति केन्द्रधनमन्त्रिणी निर्मला सीतारामः उक्तवती। अस्य विमर्शनाय मन्त्रिस्तरीयसमितिं नियुक्तवती।  www.samprativartah.in

    अर्बुदरोगस्य औषधीनां करः प्रतिशतं द्वादशात्  प्रतिशतं पञ्च पर्यन्तम् इति निर्णयः कृतः। किञ्चित् लघुभक्ष्याणां जी.एस्.टी.

न्यूनीकृतम्। संविभजनात्मक (sharing) रीत्या उपयुक्तानाम् उदग्रयानानां जी.एस्.टी.  प्रतिशतं पञ्च भविष्यति। केन्द्र-राज्यविश्वविद्यालयानां जी.एस्.टी. परित्यक्तम्। स्वास्थ्य-जीवन-योगक्षेमस्य जी.एस्.टी. अपकर्षणे सोमवासरे सम्पन्ने उपवेशने  व्यापकसहमति प्राप्ता इति विवरणानि सन्ति। अधुना  प्रतिशतम् अष्टादश इति जीवनयोगाक्षेमस्य (insurance) जी.एस्.टी. अस्ति। सोमवासरे सम्पन्ने उपवेशने केन्द्रधनमन्त्रिण्याः सीतारामस्य  आध्यक्ष्ये विविधराज्यानां धनमन्त्रिणः सम्मिलिताः।