न्यायाधीशः बी आर् गवाय् सर्वोच्चन्यायालयस्य नूतनः मुख्यन्यायाधिपः।
नवदिल्ली> न्यायाधीशः भूषण रामकृष्ण गवायः सर्वोच्चन्यायालयस्य ५२ तम मुख्यन्यायाधिपरूपेण राष्ट्रपतिना नियुक्तः। मेय्मासस्य १४ तमे दिनाङ्के शपथवाचनं भविष्यति।
इदानीन्तनमुख्यन्यायाधिपः सञ्जीव खन्ना वर्यः मेय् १३ तमे दिनाङ्के सेवानिवृत्तो भविष्यति। तत्स्थाने एव गवाय् वर्यस्य नियुक्तिः। महाराष्ट्रायां अमरावत्यां लब्धजन्मा अयं २०१९ तमे वर्षे सर्वोच्चन्यायालये न्यायाधीशः अभवत्।