OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 30, 2025

 कानडायां मार्क् कार्णी प्रशासनाय जनाङ्गीकार‌ः। 

ओट्टावा> कानडायां ३४३ सदस्ययुतां जनप्रतिनिधिसभां प्रति सम्पन्ने सामान्यनिर्वाचने अनुस्यूततया चतुर्थवारं लिबरल् पार्टी नामकं दलम् अतुल्यं विजयं प्राप। अनेन विजयेन जस्टिन् ट्रूडो इत्यस्य अनुगामिरूपेण ह्रस्वकालीनं प्रधानमन्त्रिपदमारूढः मार्क् कार्णी वर्षचतुष्टयम् अनुवर्तिष्यते। 

  यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य शुल्कभीषां विरुध्य स्वदेशीयतां प्रज्वाल्य कृते निर्वाचने लिबरलीयैः १६८ स्थानानि प्राप्तानि।