![]() |
| नरेन्द्रमोदी | Photo: PTI |
स्वातन्त्र्यानन्तरं भारतस्य विकसितराष्ट्रनिर्माणं देशस्य स्वप्नम् अस्ति। परन्तु इदानीं तस्य स्वप्नस्य साक्षात्काराय निश्चितः समयः निर्धारितः अस्ति। २०४७ तमे वर्षे स्वातन्त्र्यस्य शततमं वर्षम् आचरणात् पूर्वं सर्वे मिलित्वा भारतं विकसितराष्ट्रं कुर्युः इति सः अवदत्। भारतीयलोकतन्त्रे प्रसारमाध्यमानि निर्णयात्मिकां भूमिकां निर्वहन्ति, विभिन्नानां विचाराणां देशे पत्रकाराणां योगदानम् अमूल्यम् अस्ति इति च मोदी उक्तवान्।
