इस्रयेले ऐसन्कोट् इत्यस्य प्रशासनम्।
नेतन्याहोः नयाः शुद्धीकरिष्यन्ते।
ऐसन् कोटः नेतन्याहुश्च।
टेल् अवीव्> इस्रेयेले प्रधानमन्त्रिणः बञ्चमिन् नेतन्याहोः चिरकालिकप्रशासनस्य अन्त्यं विधातुं नूतनी संसद् अधिकारं स्वीचकार। नूूतनप्रशासनाय इस्रयेल् रक्षासेनायाः भूतपूर्वः अध्यक्षः तथा 'यषार्' इति राजनैतिकदलस्य स्थापकश्च गादी ऐसन् कोटः [Gadi Eisenkot] इस्रयेलस्य राष्ट्रपतिना ऐसक् हेर्सोग् इत्यनेन आमन्त्रितः। गतमासे सम्पन्ने निर्वाचने केनापि पक्षेण पृथक्तया प्रशासनरूपीकरणाय सदस्यबलं न लब्धम्।
बञ्चमिन् नेतन्याहोः मुख्यप्रतियोगी ऐसन्कोटः इतरैः दलैः सह चर्चां कृत्वा सदस्यबलनिर्णयाय सप्ताहषट्कस्य कालः दत्तः च। यदि ऐसन्कोटसर्वकारः अधिकारम् आगमिष्यति चेत् नेतन्याहोः राजनैतिकनयाः परिष्करिष्यन्ते इति सूच्यते।