OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 29, 2017


मोदिनः यु एस् सन्दर्शनं - आगोलप्रवेशयोजनां प्रति भारतस्य अङ्गत्वम्
वाषिङ्टण्> आकस्मिकावश्यार्थं अमेरिक्कां प्रति प्रवेशः सुकरं कर्तुम् उद्दिष्टमानायां "International Expedited Traveler Initiative" नामिकायाम् आगोलयोजनायां भारताय अपि अङ्गत्वं लब्धम्। भारतं विना स्विट्सर्लान्ट्, ब्रिटन् राष्ट्रद्वयमेव अस्यां योजनायाम् अन्तर्भूतम्।
     अमेरिक्कां प्रति विभीषिकारहितान् तथा पूर्वमेव यात्रानुमतिं लब्धवतां यात्रिकानाम्  अनया योजनया प्रवेशः सुकरः भविष्यति। व्यापार - शैक्षिक बन्धानाम् अभिवृद्धये योजनेयं उपकरिष्यति।
. रक्षासमिति स्थिराङ्गत्वम् - भारताय सहयोगः।
वाषिङ्टण्> ऐक्यराष्ट्ररक्षासमित्यां स्थिराङ्गत्वलाभाय आणववितरणसङ्घप्रवेशाय [एन् एस् जि अङ्गत्वं] च भारताय अमेरिक्काराष्ट्रस्य सहयोगः वाग्दत्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलने डोणाल्ड् ट्रम्प एव भारताय सहयोगं वाग्दत्तवान्।
      राष्ट्रद्वयस्य  परस्परवाणिज्यबन्धः शक्तीकरिष्यतीति ट्रम्पेन उक्तम्। भारतस्य सामाजिकार्थिकपरिवर्तनेषु मुख्ययोजनासु च यू एस् राष्ट्राय प्रमुखं स्थानं कल्पतेति मोदिना निगदितम्।
.

.

Wednesday, June 28, 2017

Episode-50
 आकाशे भारतस्य त्रयोदश गुप्तचरनेत्राणि।
      नवदिल्ली> कार्टोसाट् २ ई उपग्रहस्य सफलविक्षेपणेन सैनिकावश्यकतायै भारतेन विक्षेपितानाम् निरीक्षणोपग्रहाणां सङ्ख्या त्रयोदश अभवन् इति ऐ एस् आर् ओ सूचयति। एतानुपयुज्य राष्ट्रसीमानां निरीक्षणम्, समुद्रमार्गेण भौममार्गेण वा शत्रूणां चलनानि च अवगन्तुं शक्यते इत्यपि ऐ एस् आर् ओ वृत्तानि ज्ञापयति। कार्टोसाट्, रिसाट् उपग्रहा: एव प्राधान्येन निरीक्षणाय उपयुज्यन्ते। नाविकसेनया एतानतिरिच्य जीसाट् सप्त उपग्रहश्च सैनिकावश्याय उपयुज्यते। समीपकाले विक्षेपितस्य कार्टोसाट् २ परम्परान्तर्गतस्य निरीक्षणोपग्रहस्य भूम्या: शून्यं दशांशं षट्  चतुरश्रमीटर् मितोन्नतवसतूनि अपि कृत्यतया निरीक्षितुं शक्ति: वर्तते। गतशुक्रवासरे एव कार्टोसाट् परम्परान्तर्गतम् कार्टोसाट् २ उपग्रहम् भारतम् व्याक्षिपत्।  भारतस्य सर्वे  निरीक्षणोपग्रहा: भौमोपरितलात् द्विशतत: द्विशतोत्तरसहस्रं किलोमीटर् पर्यन्तं पोलार् भ्रमणपथे वर्तन्ते। कृत्यतया भूमिं निरीक्षितुम् एतत् सहायकरम्। किन्तु भारतस्य  उपग्रहवेधायुधानि विक्षेप्तुं शक्तिरस्ति तथापि बहिराकाशस्य सैनिकवत्करणे तात्पर्यं नास्तीत्यपि ऐ एस् आर् ओ शास्त्रज्ञा: व्यक्तीकृतवन्त:।
केरळे वृष्टिः शक्ता; बहुत्र नाशनष्टानि। 
कोच्ची >दक्षिणपश्चिमीयः मण्सूण् वर्षाकालः केरले शक्तः अभवत्। नदीषु जलवितानम् उद्गन्तुमारब्धम्। अतः तीरदेशवासिनां कृते जाग्रतानिर्देशः कृतः। दक्षिणजनपदेषु बहुत्र अतिवृष्ट्या मृत्पातः जातः। एरणाकुलं जनपदे मुवाट्टुपुष़ा प्रदेशे 'एम् सि रोड्' इति देशीयमार्गे भूपातेन होराः यावत् गतागतं स्थगितम्। बहूनि भवनान्यपि विशीर्णानि।
     झंझावातेन वृक्षशाखाः पतित्वा मार्गपार्शस्थितानां यानानां   क्षताः जाताः। आगामिनि दिनद्वये अपि वृष्टिः शक्ता भविष्यतीति पर्यावरण निरीक्षणकेन्द्रेण निगदितम्।

अतिवृष्टिः - केरले चतुर्षु जनपदेषु विद्यालयानाम् अद्य विरामः।
कोच्ची - केरले वर्षाकाले शक्ते सन्दर्भे बहुत्र जलोपप्लवेन यात्रादुरितमनुभूतम् इत्यतः एरणाकुलम् , इटुक्की , आलप्पुष़ा , कोल्लम् इत्येषु जनपदेषु विद्यालयानां जनपदाधिकारिभिः अद्य विरामः विज्ञापितः। आलप्पुषा जनपदे श्व अपि विरामः भविष्यति।

Tuesday, June 27, 2017

बाह्याकाशानुसन्धानं च मिलित्वा एकादशसम्मतपत्राणि भारत-पोर्चुगलमध्ये।  
लिसबण:> भारत-पोर्चुगलबन्धं दृढीकृत्य एकादशसम्मतपत्राणि। प्रधानमन्त्री नरेन्द्रमोदी पोर्चुगलप्रधानमन्त्रिणा अन्टोणियो कोस्टेऩ सह मेलनानन्तरमेव सम्मतपत्रेषु द्वावपि हस्ताक्षरं दत्तवन्तौ। बाह्याकाशगवेषणम्, द्वन्द्वकरग्राहनिवारणम्, नानोतन्त्रज्ञानम्, सांस्कारिकविनिमय: एतेषु रङ्गेषु सहकारधारणा कृता। पोर्चुगल- भारतवाणिज्यक्रयविक्रयारम्भसाङ्केतिकस्थानकस्यापि उद्घाटनम् मोदिना निरूढम्। शास्त्रसाङ्केतिकगवेषणेभ्य: चत्वारिंशत् लक्षं यूरोमितं रूप्यकाणां संयुक्तनिधि: च प्राख्यापयताम्।  भीकरविरुद्धप्रवर्तनेषु, वातावरणपठनेषु च सहकर्तुंम्  अपि धारणा कृता। त्रिराष्ट्रसन्दर्शनस्य प्रारम्भं कृत्वा प्रधानमन्त्री नरेन्द्रमोदी पोर्चुगलम् प्राप्तवान्। विमानपत्तने पोर्चुगलविदेशकार्यमन्त्री अगस्टो सान्टोस् सिल्वा तम् स्व्यकरोत्। पोर्चुगलं सन्दर्श्यमान: प्रथमभारतीयप्रधानमन्त्री एव मोदी। पोर्चुगलप्रधानमन्त्रिणा अन्टोणियो कोस्टेन सह मोदी चर्चामकरोत्। अस्मिन् वर्षे जनुवरिमासे कोस्ट: भारतं सन्दृष्टवान्। तदा आविष्कृतधारणापत्राणाम् पुरोगतिरपि ताभ्याम् अवलोकिता। सप्तदशशतके यदा गोवा पोर्चुगलाधीने आसीत् तदा प्रवृत्ते शासनापरपत्रविनिमयानाम् मुद्रितप्रतिकृतिरपि   अधिकारिण: मोदिने अदात्।  पोर्चुगलत: अमरीकाम् प्रति गच्छन् मोदी षड्विंशत्यां वाषिङ्टणे राष्ट्रपतिं ट्रम्पं मेलिष्यति। द्वावपि इदम्प्रथमतया साक्षान्मेलिष्यत:। केषाञ्चन वैयवसायिकसंस्थानाम् सी ई ओ (अधिकारिण:) अपि सन्दर्शनोत्सुक: मोदी। तत: सप्तविंशत्यां स: नेतरलान्डं गमिष्यति। डच्च् प्रधानमन्त्री मार्क् रूट्टेनामकं, राजानं विल्यम् अलक्साण्डरम् राज्ञीं माक्सिमां च सन्दर्श्य चर्चां करिष्यति।
जनान् क्लेशघट्टे पातयत: सर्वकारोद्योगस्थान् बन्धितुं  केरळस्य जाग्रताविभागेन पट्टिका सज्जीक्रियते।

  तिरुवनन्तपुरम्>जनानां क्लेशजनकान् सर्वकारोद्योगस्थान् बन्धितुं पट्टिका सज्जीक्रियते जाग्रताविभागेन ( विजिलन्स् )। जनैस्सह साक्षात् व्यवह्रियमाणेषु- आयकरविभाग:, यन्त्रवाहनविभाग:, निरीक्षणस्थानकानि (चेक् पोस्ट्), सामान्यविपणनविभाग:- एतेषु विभागेषु निरीक्षणम् आरभ्यते।  क्लेशकरान् उद्योगस्थान् अधिकृत्य  जाग्रताविभाग: सर्वकारस्य समीपम् आवेदयति। अत्याचारिण: ग्रहीतव्या: इति सर्वकारनिर्देशानुसारमेव जाग्रताविभागस्य निर्णय:। सामान्यजनानां कृते  क्लेशदायकानाम् उत्कोचग्राहकाणा निर्बन्धोपहारग्राहकाणां च पट्टिका जाग्रताविभागेन सज्जीक्रियते। ततोपरि अधिकनिवेदनं यं कार्यालयमधिकृत्य प्राप्नोति तस्य कार्यालयस्य विशदांशान् सङ्गृह्य सर्वकाराय समर्प्यते।  जेकब् तोमस: यदा जाग्रता विभागस्य अधिकारी आसीत् तदा  विविधविभागानाम् अत्याचारान् अधिकृत्य सूचिका सज्जीकृता आसीत्।  एतस्य अनुवर्तनमेव निर्णय:। विविधविभागानाम् अत्याचारान् निर्दिश्य निवेदनप्रलय: एव जाग्रताविभागस्य आस्थाने।  एतदाधारेण कृते अन्वेषणे ग्रामकार्यालयेषु एव अधिकक्रमभङ्ग: लक्षित:। मध्यस्थान् ग्रहीतुम् समग्ररूपरेखां निर्मातुं च मण्डलमेधाविभ्य: जाग्रताविभाग: निर्देशमदात्।  ग्रामकार्यालयेषु, गतागतविभागेषु, निरीक्षणकेन्द्रेषु च गतसप्ताहे प्रवृत्ते शोधनिरीक्षणे जाग्रताविभागेन अनेके क्रमदोषा: लक्षीकृता:।

Monday, June 26, 2017

वनम् पोषकसमृद्धमिति मध्यप्रदेशमन्त्रिणी अर्चना चिट्निस्।
  
षिल्लोङ्>वनम् पोषकसमृद्धं नास्ति चेत् सीताश्रीरामौ वर्षाणि यावत् कथं वनमध्ये उषितवन्तौ इति मध्यप्रदेशवनिताशिशुविकसनविभागमन्त्रिण्या: प्रतिप्रश्न:। राज्ये वनवासिनो जना: पोषकाहारापर्याप्तताम् अभिमुखीकुर्वन्तीति माध्यमप्रवर्तकस्य परामर्शं श्रुत्वैव पुराणमुपजीव्य प्रत्युत्तरम् अर्चना चिट्निस् अदात्। शुक्रवासरे षिल्लोङ् मध्ये प्रचालिते  पोषकाहारानुपलब्धि: कृषिरीतय: च  इति सङ्गोष्ठ्याम् भाषते स्म मन्त्रिणी। प्रादेशिकविभवान् खादित्वा पोषकाहारापर्याप्तताम्  परिहरेयुरिति विषये अवबोधजागरणाय एव सङ्गोष्ठी चालिता। स्वीयावश्यानि परिहृत्य मितानि भक्ष्यवस्तूनि एव कर्षका: विक्रयेयुरिति च पुराणमुद्धृत्य मन्त्रिणी व्यक्तमसूचयत्। महाभारतस्य कंसकृष्णयो: कथा कार्याणि विशदयितुं प्रेरिका अभवत् ।
आस्त्रेलियन् ओपण् बाड्मिन्टण् - श्रीकान्तः चरमपादे।
मेल्बण्> पिच्छकन्दुकक्रीडाङ्कणे अत्युज्वलं क्रीडाकौशलम् अनुवर्तमानः भारतपुत्रः किडम्बि श्रीकान्तः चीनायाः चतुर्थसीड् क्रीडकं षि युक्किं पराजित्य आस्ट्रेलियन् ओपण् सूप्पर् सीरीस् पिच्छकन्दुकक्रीडायाः [बाड्मिन्टण्] अन्तिमपादं प्रविष्टः। चीनायाः चेन् लोङः श्रीकान्तस्य प्रतियोगी भविष्यति।
    पूर्वं सिङ्कप्पूर् ओपण् तथा इन्डोनेष्यन् ओपण् क्रीडयोः चरमपादमपि श्रीकान्तेन प्रविष्टः।
मोदी-ट्रम्प् मेलनम् अद्य।
वाषिङ्टण्> त्रिराष्ट्रसन्दर्शनस्य अंशतया अमेरिक्कां प्राप्तः भारतप्रधानमन्त्री नरेन्द्रमोदी अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्प्  इत्येतयोः मेलनम् अद्य सम्पद्यते। आगोलतले अस्मै मेलनाय महत्प्राधान्यं कल्प्यते।
    भारतस्याभिवृद्धिः यू एस् राष्ट्रस्यापि अभिवृद्धये भविष्यतीति भारतप्रधानमन्त्रिणा वाषिङ्टणे उक्तम्।

Sunday, June 25, 2017

  चीनायां भूपातः, १४० जनाः तिरोभूताः।
बेय्जिङ्> चीनाराष्ट्रे सिच्वान् प्रविश्यायां सिन्मो नामके ग्रामे दुरापन्नेन महता मृत्पातेन चत्वारिंशदुत्तरशताधिकं जनाः तिरोभूताः अभवन्। शनिवासरे प्रातः षड्वादने [प्रादेशिकसमयः] एव ग्रामस्थितस्य पर्वतस्य कश्चन भागः निपतितः। ४६ गृहाणि सार्धैककिलोमीटर् परिमितः मार्गश्च विनाशं प्राप्तानीति तद्देशीयाभिः वार्तापत्रिकाभिः ज्ञायते।
    दिनानि यावत् अनुवर्तमाना वृष्टिरेव पर्वतनिपातस्य कारणमिति अभिज्ञैः सूच्यते।
सिख् वंशजा कानडायाम् परमोन्नतनीतिपीठे न्यायाधीशा।
कानबरा>मनुष्यावकाशप्रवर्तिका  सिख् वंशजा अभिभाषिका  पलवीन्दर कौर् षेरलिङ् कानडायाम् परमोन्नतनीतिपीठे न्यायाधीशत्वेन नियुक्ता। इदम्प्रथमतया एतादृशपदवीम् प्राप्ता सिख् वंशजा  इयमेव। मई एकत्रिंशत्तमे  विरमितस्य न्यायाधीशस्य अरनोल्ड् बेय्लि महाशयस्य स्थाने एव एतस्या: नियुक्ति:। नीतिन्यायविभागमन्त्रिणा जोडी विल्सण् रेबोल्डेन नियमनम् प्रख्यापितम्।
त्रिराष्ट्रसन्दर्शनं - नरेन्द्रमोदी अद्य अमेरिक्कां प्राप्नोति। 
नवदिल्ली - यू एस् , पोर्चुगल् ,नेतर्लान्ट् इत्येतानि राष्ट्राणि सन्द्रष्टुं प्रस्थितः भारतप्रधानमन्त्री नरेन्द्रमोदी पोर्चुगालस्न्दर्शनं समाप्य अद्य प्रातः यू एस् राष्ट्रं सम्प्राप्नोति। सोमवासरे अमेरिक्काराष्ट्रपतिना डोणाल्ड् ट्रम्पेन सह मेलनं भविष्यति। मोदी-ट्रम्पयोः प्रथमं मेलनं भवतीदम्।
   शनिवासरे सायं पोर्चुगालं प्राप्तं मोदिनं विदेशकार्यमन्त्री अगस्टो सान्टोस् सिल्वा गुजरातीविभवैः स्वीकृतवान्। तदनन्तरं नरेन्द्रमोदी पोर्चुगालप्रधानमन्त्रिणा भारतवंशजेन अन्टोणियो कोस्टा वर्येण सह मेलनं कृतवान्। परस्परव्यापार निक्षेपादिविषयेषु चर्चां कृत्वा सम्मतिपत्रेषु हस्ताक्षरमपि कृतवान्।

Saturday, June 24, 2017

अफ्गानिस्थान-अयर्लान्ट् राष्ट्राभ्यां निकषदलपदप्राप्तिः। 
लण्टन् > अफ्गानिस्थानाय अयर्लान्ट् देशाय च क्रिक्कट् क्रीडामण्डले निकषदलपदं दातुं अन्ताराष्ट्रक्रिक्कट् समित्याः [ऐ सि सि] सांवत्सरिकोपवेशने निर्णयः अभवत्। अनेन निकषदलानां संख्या द्वादश अभवत्। अफ्गानिस्थानः अयर्लीन्टः च यथाक्रमं एकादशं द्वादशं निकषदलं भविष्यति।
     आभ्यन्तरक्रिक्कट्क्रीडायाः परिपोषणाय राष्ट्रद्वयेनापि कृतानि परिष्करणानि निकषपदप्राप्त्यर्थं सुकराण्यभवन्।
समाजमाध्यमानि निरीक्षितुं केन्द्रं सन्नद्धतां करोति।
      नवदिल्ली >भारतविरुद्धप्रचारणाय समाजमाध्यमानां दुरुपयोगं कुर्वन्ति वेति निरीक्षितुं केन्द्रसर्वकार: संविधानं करोति। सुरक्षादलानाम्  आभ्यन्तरमन्त्रालयस्य च मेलनं देहल्यां प्रचाल्य एतस्य विशदांशान् अधिकृत्य चर्चामकरोत्।  अधुना समाजमाध्यमेभ्य:  सुशक्तनियन्त्रणानि  न सन्ति। एतस्य कृते  सुव्यक्तमार्गनिर्देशानां रूपीकरणमेव लक्ष्यम्। राष्ट्रतात्पर्यं विरुद्ध्य समाजमाध्यमानि उपयोक्तुं  काश्चन भीकरसङ्घटना: श्रमं कृतवत्य: इति साहचर्ये केन्द्रनयस्य प्राधान्यं वर्तते।
भारताय अमरीकाया: 22 अतिलघु विमानानि।
          वाषिङ्टण्>भारताय द्वाविंशति:  रक्षाकर्तृड्रोणराणि विक्रेतुम् अमरीका अनुमतिं अदात्। प्रधानमन्त्रिण: नरेन्द्रमोदिन: अमरीकासन्दर्शनात् पूर्वमेव उभयकक्षिबन्धं दृढीकरणस्य भागत्वेन एवम्। निर्णयमेतत् भारतसर्वकारं ड्रोणर् निर्मातॄन् च अमरीकाया: राज्यविभाग: सूचनामकरोत् इति सर्वकारवृत्तानि सूचितानि  किन्तु एतस्मिन् औद्योगिकप्रख्यापनं  नागतम् त्रिशतं कोट्या:विनिमयोयम्। सामान्यस्वमिश्रडोणराणि   भारताय दीयते ।भारतेन सह सुशक्तबन्धं प्रबलं कर्तुम्  ट्रन्प् शासनकूटस्य रीतिरियम्। एतानि सम्बद्ध्य प्रश्नान् प्रतिकर्तुं  श्वेतगृहेण राज्यविभागेन वा सन्नद्धतां न प्राकटयत्। औद्योगिकप्रख्यापनं शाघ्रमागच्छेत्।
केन्नत्त् जस्टर् भारते यू एस् स्थानपतिः।
वाषिङ्टण् >अमेरिक्कायाः राष्ट्रपतेः डोणालेड् ट्रम्पस्य आर्थिककार्यसमित्याः प्रमुखः 'केन्नत्त् जस्टर्' नामकः तस्य राष्ट्रस्य स्थानपतिरूपेण भारते नियुक्तः भविष्यति। भारतज्ञः सः ट्रम्पस्य अन्ताराष्ट्र - आर्थिककार्यसमित्याः तथा देशीयसम्पत्समित्याः च उपनिदेशकः भवति। जस्टरस्य नियुक्तये 'सेनट्' सभायाः अङ्गीकारः प्रतीक्षते।भूतपूर्वभारतस्थानपतेः  रिच्चड् वर्मणः स्थाने एवास्य नियुक्तिः।

Friday, June 23, 2017

यू एन् राजधान्यां योगदिनाचरणं, सविशेषमुद्राप्रकाशनं च।
न्यूयोर्क्> तृतीयम्  अन्ताराष्ट्रयोगदिनारणं जलपूजासहितम् ऐक्यराष्ट्रसभायाः राजधान्यां संवृत्तम्। दिनाचरणं पुरस्कृत्य विविधयोगाभ्यासरीतिनां चित्राणि , देवनागरिलिप्याम् "ऊँ" इति च आलेखनं कृतवत्यः मुद्राः प्रकाशिताः च।
      मङ्गलवासरे यू एन् आस्थाने संवृत्ते "योगाचार्यैः सह योगाभ्यासः" इत्यस्मिन् कार्यक्रमे नानाराष्ट्राणां यू एन् स्थिराङ्गाः,  नयतन्त्रप्रतिनिधयः, यू एन् कार्यालयसेवकाः इत्यादयाभिव्याप्ताः सहस्राधिकाः जनाः भागभाक्त्वं स्वीकृतवन्तः।
     हृषिकेशे परमार्थनिकेतन आश्रमात् स्वामी चिदानन्दसरस्वती , साध्वी भगवती सरस्वती इत्येतयोः नेतृत्वे जलपूजा संवृत्ता। सर्वेभ्यः शुद्धजलं लभतामिति प्रार्थनया आदर्शभूगोलस्य उपरि जलधारां कृत्वा प्रतीकात्मतया पूजा कृता।
     'स्वस्थे शरीरे स्वस्थं मनः' इति उक्तिः योगाभ्यासेन साक्षात्क्रियते इति यू एन् सामान्यसभाध्यक्षेन पीटर् तोम्सण् वर्येण उक्तम्।
 राष्ट्रपतिप्रत्याशिनः घोषणा
नव देहली-राष्ट्रपतिनिर्वाचनमालक्ष्य पक्षविपक्षाभ्यां प्रत्याशिनः घोषणा विहिता। राष्ट्रियजनतान्त्रिकसंयुत्या  बिहारराज्यस्य प्राक्तन् राज्यपाल: रामनाथकोविन्द: प्रत्याशित्वेन समुद्घोषितः। अथ च संयुक्तप्रगतिशीलसंयुत्या कांग्रेसदलाध्यक्षाया: सोनिया- गान्धिन: नेतृत्वे पूर्व लोकसभाध्यक्षा मीराकुमारः प्रत्याशित्वेन प्रचिता। मीरायाः नामोद्घोषणंं विपक्षिदलानां सांकेतिकं विरोधं प्रकटयति, यतोहि  राष्ट्रियजनतान्त्रिकसंयुत्या पार्श्वे राष्ट्रपतिनिर्वाचनाय आवश्यकमतानि सन्त्येव। अतो विचारणीयोSयं यत् विपक्षेन किमर्थं रामनाथ कोविन्दं विरुध्य मीरायाः नामोद्घोषितम् ।

प्रत्याशिद्वयस्य साम्यं वैषम्यम् च
दलितप्रतिनिधि:-

रामनाथकोविन्द: कर्णपुरस्य निवासी वर्तते।अतः कोविन्दस्य नामोद्घोषणेन केतिपय राज्येषु गतमासेषु रुष्टदलितजनानां मध्ये दलितहितसंरक्षकत्वेन छविनिर्माणमप्यस्ति कारणमेकम्, अतः तामेव पद्धतिमनुसृत्य संयुक्तप्रगतिशीलसंयुत्या अपि दलितप्रतिनिधित्वेन मीराकुमारः प्रचिता अनेन निर्णयेन संयुक्तप्रगतिशीलसंयुत्या दलितविरोधी छवि: न भविष्यति ।

सौम्य स्वभाव: -
एतयो: द्वयो: प्रतिनिधयो: चरित्रं विवादहीनमस्ति।
उभयोः राजनैतिकं जीवनम् अपि ऊहापोह रहितं स्पष्टं च वर्तते |
मीराकुमार् महाभागा विपक्षिदलस्य राष्ट्रपतिस्थानाशिः।
नवदिल्ली > राष्ट्रपति निर्वाचने सामान्यस्थानाशीरूपेण पूर्वतनलोकसभाध्यक्षा मीराकुमार् महाभागा विपक्षि दलैः प्रख्यापिता।  दिल्यां विधानसभागृहे आयोजिते विपक्षिदलानां मेलने एव प्रख्यापनमभवत्। काण्ग्रस् अध्यक्षायाः सोणियागान्धिनः आध्यक्ष्ये आयोजिते मेलने षोडशसंख्याकानां  राजनैतिकदलानां प्रतिनिधयः भागं स्वीकृतवन्तः।  मीराकुमार् महाभागायाः नाम्ना सह अम्बेद्कर् महोदयस्य पौत्रः प्रकाश् अम्बेद्करस्य नामापि परिगणनायाम् आसीत्।
दण्डनम् अनुभोक्तव्यमेव; न्यायाधीशस्य कर्णस्य अपेक्षा अवक्षिप्ता।
  नवदिल्ली> न्यायालयालक्ष्याय  परमोन्नतनीतिपीठेन षण्मासं यावत् कारागारवासेन दण्डित:  कोलकत्ताराज्यन्यायालयस्य पूर्वन्यायाधीश: सी कर्ण:   दण्डनम् अनुभवेदिति  परमोन्नतनीतिपीठ:। लब्ध: षाण्मासिककारागारवास: निरोद्धव्य:, तथा मध्यवेलाजाम्यं च दातव्यमिति सूचयित्वा तेन समर्पिता हरजीं (न्यायापेक्षां)  अवक्षिप्यैव  परमोन्नतनीतिपीठस्य मध्यवेलोत्पीठिकाया:निर्णय:।  अभिभाषकेन समर्पिता न्यायापेक्षा  न्यायालयेन अवक्षिप्ता। सर्वोन्नतन्यायाधीशयुता  सप्ताङ्गोत्पीठिका  एव दण्डनम् व्यदधात्। इत: परम् प्रत्येकोत्पीठिकया एव  न्यायापेक्षा परिगणितुं साध्या इत्यपि न्यायालयेन व्यक्तीकृतम् ।  कर्णं कोलकत्ताया: प्रसिडन्सी कारागारं प्रेषयेत् , उन्नतारक्षकाधिकारिभि: सह कर्णं कोलकत्तां प्रापितवन्त: । मङ्गलवारे सायं षड्वादने जाते कर्णं तमिल्नाडु आरक्षकसाहाय्येन कोलकत्तारक्षका: गृहीत्वा बन्धितवन्त:। आरक्षकान् दृष्ट्वा  जस्टिस् कर्ण: तैस्सह रूक्षवाग्वादानन्तरमेव  नियन्त्रणविधेय: अभवत्। मई नवमदिनाङ्के एव परमोन्नतनीतिपीठस्य सर्वोन्नतन्यायाधीशस्य जे एस् खेहारस्य नेतृत्वे सप्ताङ्गोत्पीठिका कर्णस्य दण्डनं व्यदधात्। तत: आरक्षकेभ्य: रक्षाम् प्राप्य गुप्तचारी अभवत् स:। मद्रासराज्यन्यायालयस्य न्यायाधीशत्वेन प्रवर्तमाने, सहन्यायाधीशान् प्रति उन्नीतानि आरोपणानि  अनुवर्त्य कर्णं कोलकत्तान्यायालयं प्रति स्थानपरिवर्तनं कृतवन्त:। तत: परमोन्नतनीतिपीठस्थन्यायाधीशान् प्रति दण्डनं व्यदधात् इत्येतत् न्यायालयालक्ष्यनिर्णयाय कारणमभवत्। तन्मध्ये दण्डनं रोधितुं परमोन्नतनीतिपीठम् उपगतवान् चेदपि फलं नाभवत्।  न्यायाधीशं कर्णं ग्रहणविषये सहकार: न दत्त: इत्युक्त्वा बङ्गाल डी जी पी तमिल्नाड् आरक्षकान् प्रति रूक्षविमर्शं कृतवान्।

Thursday, June 22, 2017

योगस्य प्रशस्ति: चीनायाः उन्नतप्राकारेपि 
      योगद्वारा भारतयश: आलोकं व्याप्यमाने सन्दर्भेस्मिन् चैनाया: काचित् कौतुकवार्ता । जूण् एकविंशति: योगदिनत्वेन आघुष्यमाणे चैनाया: उन्नतप्राकारे प्रवृत्ते योगाभ्यासे  भागमूढवन्त: बहव: । भारतीया: चीनादेशीयाश्च तत्र भागमभजन्त । चैनाया: भारतनयतन्त्रविभाग: ( चैनीस् पीप्पिल् असोसियेषन् ) चीनाजनकीयसमित्या सह  संयुज्य प्रवर्तनमिदम् आयोजयत् । मङ्गलवासरे प्रात: उपद्वादशयोगाभ्यासिभि: उन्नतप्राकारे कृताभ्यासै: कार्यक्रमस्य आरम्भ: अभवत् । चैनायां योगप्रशस्तिवर्धनम् इति उत्तमलक्ष्येन  कार्यक्रम: आयोजित: । एतादृशकार्यक्रमा: भारतचीनासौहार्दस्य ऊष्मलतां वर्धयेयु:  तदर्थं सहायका: वा भवेयु: इति भारतमन्त्रालयेन व्यक्तीकृतम् । जूण् एकविंशत्यां योगदिने बीजिङ्मध्ये सहस्रं जना: योगाभ्यासे भागमभजन्त । एतस्मादुपरि भारतात् योगे समर्था: ऊनत्रिंशत् वयस्का: विंशति: अभ्यासिन:  बीजिङे तथा  चैनाया: अन्यनगरेषु च योगप्रचारणाय प्रवर्तितवन्त: ।चैनायां गणनानुसारं अष्टशतोत्तरदशसहस्रं (१०८००) योगविद्यालया: प्रवर्तन्ते ।
एकत्रिंशत् कृत्रिमोपग्रहाः श्वः बहिराकाशे।
Add caption
चेनै- भारतस्य कारटोसाट्ट् द्वि ई तथा त्रिंशत् नानो उपग्रहैः सह पी एस् एल् वी श्वः श्रीहरिकोट्टायाः विक्षेपणस्थानात् उद्गच्छति। प्रातः नवविंशत्यधिक नववादने अस्ति विक्षेपणम् । उपग्रहेषु नवविंशति विदेशराष्ट्राणाम् अन्तर्भवन्ति। एकः कन्याकुमारीस्थस्य नूरुल् इस्लां विश्वविद्यालयस्य भवति। द्वादशाधिकसप्तशत किलो भारयुक्तं कारटोसाट्ट् द्वि ई कारटोसाट्ट् परम्परायाः षष्ष्ठतमः  उपग्रहः  भवति। विदूर संवेदन सेवाः अस्य मुख्यं लक्ष्यं। तेन सह भौम निरीक्षणाय अपि उपयुज्यते।
पि एस् एल् वी इत्यस्य चत्वारिशत् तम विक्षेपणमिदम्। पञ्चाधिकपञ्चशत कि. मी उपरिस्थे सौरस्थिर भ्रमणपथे एतान् प्रेषयति। नानो उपग्रहेषु नवविंशति संख्यकाः आस्ट्रिया , बेल्जियम् , चिली , चेक् रिप्पब्लिक्, फिन्लाण्ड् , फ्रान्स् , जर्मनी , इट्टली, जप्पान्,लात्विया, लित्वेनिया, स्लोवाक्या, ब्रिट्टन्, अमेरिका  इत्यादि राष्ट्राणां भवन्ति। आहत्य त्रिंशत् उपग्रहाणां भारः त्रिचत्वारिंशदुत्तरद्विशत किलोमितः  भवति।
भारतीतीर्थस्वामिनं विधुशेखरस्वामिनं कालट्यां प्रोज्वलं स्वीकरणम्।
कालटी>शृङ्गेरि शारदापीठाधिपतिनं भारतीतीर्थस्वामिनं तथा नियुक्त अनुगामिनं विधुशेखरस्वामिनं च अद्वैतभूमौ भक्तिनिर्भरं स्वागतम्। अलुवातः रविवासरे सायं स्वामिनौ कालट्यां प्रापतुः। हर हर शङ्कर जय जय शङ्कर भेरिभिः स्वामिनौ स्वीचक्रुः।
रोजि एम् जोऩ् एम् एल् ए, के. तुलसी, पीजे जोई, जोस् तेट्टयिल्, टी पी रवीन्द्रन् इत्यादि प्रमुखाः स्वामिनौ स्वीकर्तुं आगतवन्तः।
स्वीकरणात् परं आश्रम वीथ्या शृङ्गेरीं प्रति घोषयात्रा आरब्धा। 'पुत्तन् काव्' 'मकरचोव्वा' महोत्सवसमितिः, कालटी एन् एस् एस्  'करयोगं', श्रीरामकृष्ण अद्वैताश्रमं च स्वागतं अकुर्वन्। स्वामिनोः शृड़्गेरी मन्दिरदर्शनानन्तरं विशिष्टे मञ्चे धूलीपादपूजा, स्वागतपत्रसमर्पणं, स्वामिनोः अनुग्रहभाषणं च अभवत्। शृड़्गेर्यां निर्मितस्य नूतनमन्दिरस्य उद्घाटनमपि स्वामिनौ अकुरुताम्। आगामिनि पञ्चदिनेषु प्रातः दशवादनादारभ्य सार्धद्वादशवादनपर्यन्तं भक्तानां दर्शनस्य अवसरः विद्यते। प्रतिदिनं रात्रौ सार्ध अष्ट वादने भारतीतीर्थस्वामिनः कार्मिकत्वेन चन्द्रमौलीश्वरपूजा भविष्यति। एकविंशतिदिनाङ्कात् त्रयोविंशतिदिनाङ्कपर्यन्तं सायं चतुर्वादने स्वामिनोः नेतृत्वे विद्वत्सदस्स् अपि भविष्यति। चतुर्विंशति दिनाङ्के स्वामिनौ तृश्शिवपेरूरं प्रति गमिष्यतः।

Wednesday, June 21, 2017

बिहारराज्याध्यक्ष: रामनाथकोविन्द: एन् डी ए दलस्य राष्ट्रपतिस्थानार्थी। 
 नवदिल्ली>बिहारराज्याध्यक्ष: रामनाथकोविन्द:  एन् डी ए दलस्य  राष्ट्रपतिस्थानार्थी  भविष्यति । काण्पूरत: आगत: दलितनेता भवति रामनाथ:। देशीयाध्यक्ष: अमित षा एव स्थानार्थिप्रख्यापनं कृतवान्।  प्रधानमन्त्रिण: नरेन्द्रमोदिन:  अध्यक्षतायां समावेशिते भा ज पा नियमनिर्माणसभामण्डलयोगे  (पार्लमेन्टरी बोर्ड् )  रामनाथस्य स्थानार्थित्वं निर्णीतम्। अस्मिन् मासे त्रयोविंशत्याम्  नामनिर्देशपत्रिका समर्प्यते। प्रधानमन्त्री नरेन्द्रमोदी सोणियागान्धिना मनमोहनसिंहेन च साकं चर्चां कृतवान् । दलेषु चर्चित्वा  निर्णयं ज्ञापयिष्यन्ति इति उक्तवन्त:  इत्यपि स्थानार्थित्वप्रख्यापनावसरे  अमित षा उक्तवान् ।  तथा च उपराष्ट्रपते: विषये कापि चर्चा न प्रवृत्ता  इत्यपि स: व्यक्तीकृतवान् । पञ्चचत्वारिंशदुत्तरनवशताधिकसहस्रतमे  ओक्टोबरमासस्य प्रथमदिनाङ्के  कानपुरे रामनाथसिंह: जनिम् प्राप्तवान् । कानपुरस्थसर्वकलाशालाया: बी कोम् , नियमबिरुदानि च प्राप्य  षोडशवर्षाणि यावत् देहली उन्नतन्यायालये तत: परमोन्नतनीतिपीठे च  अभिवक्तृपदवीमलङ्कृतवान्। अशीत्युत्तरनवशताधिकसहस्रत: त्र्यशीत्युत्तरनवशताधिकसहस्रपर्यन्तम् परमोन्नतनीतिपीठे केन्द्रसर्वकारस्य  स्टान्डिङ् कोण्सल् आसीत्।  उत्तरप्रदेशात्  राज्यसभाम् प्रति द्विवारं चित: (१९९४-२०००), (२०००-२००६)। पट्टिकजातिवर्गक्षेम:, आभ्यन्तरम्, सामाजिकनीति:, नियम:, पेट्रोलियम्  आदिषु विविधनियमनिर्माणसभासमितिषु अङ्गमासीत्। लक्नौस्थे बी आर् अम्बेदकरसर्वकलाशालाया:  प्रबन्धकमण्डले ,  कोलकत्तासर्वकलाशालाया:  अधिकारपदवीमण्डले  च अङ्गमासीत्। द्व्युत्तरद्विसहस्रे  ऐक्यराष्ट्रसभायाम्  भारतस्य प्रातिनिध्यम् अवहत्।  विवादेषु असन्निहित:, उत्तमप्रतिच्छायायुक्त: अयम्  रामनाथकोविन्द: स्त्रीभिः दलितैः एवं,  समाजस्य दुर्बलविभागैः सह स्थितवान्। लोकसभाङ्गेन प्रवर्तनसमये ग्रामीणमेखलायां शिक्षासौकर्यसज्जीकरणे स: विशेषश्रद्धां दत्तवान्। दुर्बलविभागानां स्त्रीणां च नि:शुल्क-नियमसहाय-दानप्रवर्तनेषु  नेतृत्वं दत्तवान् च।

Tuesday, June 20, 2017

डार्जिलिङे प्रक्षोभ: अनुवर्तते।
   
नवदिल्ली> डार्जिलिङे  रूक्ष: प्रक्षोभ: अनुवर्तते। शान्ततायै श्रम:। गूर्खा जनमुक्ति मोर्चया (जी जे एम्)  चाल्यमान: प्रक्षोभ: शक्तीकृत:। तदनुगत्य जना: शान्ता: भवन्तु इति प्रार्थनया केन्द्रमन्त्री राजनाथसिंह: च रङ्गम् प्रविष्ट:। भिन्नता: अबद्धधारणाश्च चर्चाद्वारा परिहर्तुं श्रम: करणीय: इति स: अभ्यर्थितवान्। डार्जिलिङ्ङस्य स्थितिगती: अधिकृत्य पश्चिमबङ्गालमुख्यमन्त्रिणा ममता बानर्जिना सह भाषणमकरोत् इत्यपि व्यक्तीकृतवान्।