भारतं विरुद्ध्य अमेरिकायाः शुल्कः न्यूनीकृतः। .jpg)
ट्रम्पः मोदी च।
वाषिङ्टणः> भारतेन सह व्यापारसन्धिः आविष्कृत इति डोनाल्ड ट्रम्पस्य अभिमानवचः। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह दूरवाणीद्वारा संभाष्य सोमवासरे ट्रूत् सोष्यल्' द्वारा आसीत् ट्रम्पस्य सन्ध्युद्घोषणा। अस्य व्यवस्थानुसारं भारतं विरुध्य शुल्कः २५ प्रतिशतात् १८% इति न्यूनीकृतः इति ट्रम्पः प्रोक्तवान्। प्रत्युत, शुल्कन्यूनीकरणस्य कृते भारतस्य प्रधानमन्त्री नरेन्द्रमोदी कृतज्ञतां व्याहृतवान् तथापि व्यापारसन्धिविषये स्पष्टीकरणं न कृतवान्।