सन्तोष् ट्रोफी।
प्रपूर्वान्त्यचरणस्य अद्य प्रारम्भः। 
स्पर्धायै सज्जः केरलसंघः।
दिब्रुगढः> असमराज्ये दिब्रुगढे संचाल्यमानायाः सन्तोष् ट्रोफी पादकन्दुकस्पर्धायाः चतुर्थांशचरणं मङ्गलवासरे सम्पद्यते।
आतिथेयदलम् असमं प्रति केरलं स्पर्धिष्यते। इतरेषु प्रतिद्वन्द्वेषु तमिलनाट-पञ्चाबयोः, पश्चिमवंग-सर्वीससयोः, रेल् वेस-राजस्थानयोः च क्रीडाः अपि भविष्यन्ति।