OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, February 4, 2026

 संगीतनिदेशकः एस् पि वेङ्किटेशः यशश्शरीरः अभवत्। 


चेन्नै> दक्षिणभारतस्य चलच्चित्रमण्डले विख्यातः संगीतनिदेशकः एस् पि वेङ्किटेशः [७०] दिवंगतः।  मङ्गलवासरे प्रभाते दशवादने चेन्नैय्यां पोरूरस्थे स्वभवने हृदयाघातेन आसीत् तस्य अप्रतीक्षितमन्त्यम्। 

 चतुर्भिः दशकैः भारतीयचलच्चित्रमण्डले संगीतसंविधाकेषु अग्रकोटिषु विराजमानेषु अन्यतमः एस् पि वेङ्किटेशः १६० अधिकेषु चलच्चित्रेषु ६००परं गानेभ्यः संगीतमदात्। एषु भूरिशः कैरलीगानानि आसन्। एतानि विना तमिल्, कन्नड़, तेलुगु, हिन्दी, बङ्गाली चलच्चित्रेष्वपि सः गानानि आविष्कृतवान्। तस्य अन्त्येष्टिकर्माणि बुधवासरे मध्याह्ने पोरूरे श्मशाने विधास्यन्ते।