OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 6, 2026

 गासायां पुनरपि भुषुण्डिप्रयोगः - २१ जनाः हताः। 

डेयर् अल् बला>  युद्धविरामः वर्तमाने गासाप्रान्ते शान्तिसन्ध्युल्लुङ्घनं कृत्वा इस्रयेलस्य आक्रमणम्। बुधवासरे इस्रयेलसेनया कृते भुषुण्डिप्रयोगे २१ जनाः हताः। हतेषु पञ्च बालकाः सप्त महिलाश्च अन्तर्भवन्ति। 

  उत्तरगासायां टुफा, दक्षिणगासायां खान् यूनिस् इत्येते स्थानद्वये आसीदाक्रमणम्। स्वसैनिकान् विरुध्य 'तीव्रवादिनः' भुषुण्डिप्रयोगं कृतवन्तः इत्येव सैनिकाक्रमणस्य हेतुरिति इस्रयेलस्य न्यायवचः। सेनाक्रमणं हमासेन मध्यस्थैश्च अपलपितम्।