ऊननवदशक्रिकट्
विश्वकिरीटं भारतस्य। 
विश्वचषकं प्राप्तवतः भारतदलस्य आह्लादः।
हरारे> सिम्बाब्वे राष्ट्रे सम्पन्ने ऊननवदशवयस्कानां विश्वचषकक्रिकट् क्रीडायाः अन्तिमप्रतिद्वन्द्वे इङ्गलान्टं शतं धावनाङ्कैः पराजित्य भारतं विश्वकिरीटं सम्प्राप। प्रारम्भकक्रीडकस्य वैभव सूर्यवंशिनः उज्वलशतकस्य [१७५] प्रबलत्वेन आसीत् भारतस्य विजयः। अन्तिमक्रीडायां परम्परायां च श्रेष्ठक्रीडकः वैभवः भवति।
प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु ४११/९। इङ्गलान्टः ४०. २ क्षेपणचक्रेषु ३११ धावनाङ्कैः सर्वे बहिर्नीताः। भारतस्य षष्ठं किरीटं भवत्येतत्।
वैभव सूर्यवंशी ८० कन्दुकेषु १७५ धावनाङ्कान् उपलब्धवान्। १५ चतुष्कानि, १५ षट्कानि च वैभवस्य लगुडात् प्रसूतानि। नायकः आयुष् मात्रे (५३), वेदान्त त्रिवेदी (३२), विहान् मल्होत्रा (३०), अभिग्यान् कुण्डु (४०), कनिष्क चौहानः (३७*) इत्येते च भारताय उज्वलेन क्रीडितवन्तः। प्रतिक्रीडायाम् इङ्गलान्टस्य कालिब फाल्कनरस्य शतकं [११५/६७) विजयाय निष्फलं जातम्।