OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, February 16, 2026

 टि-२० विश्वचषकः।

पाकिस्थानं ६१ धावनाङ्कैः भारतेन पराजितम्। 

क्रीडाप्रवीरः इषान किषनः। 

कोलम्बो> क्रिकट् आराधकैः आकाङ्क्षया प्रतीक्षितः प्रतिद्वन्दः सम्पन्नः। टि-२० विश्वचषकस्य ए संघे भारत-पाकिस्थानयोः प्रतिद्वन्दे भारतस्य अनायासः विजयः। अनेन विजयेन भारतं 'सूपर् 8' नामकम् अनन्तरश्रेणीं प्राविशत्। 

  प्राप्ताङ्कसूचिका - भारतं २० क्षेपणचक्रेषु १७५/७, पाकिस्थानं १८ क्षेपणचक्रेषु  ११४ धावनाङ्कैः सर्वे बहिर्नीताः। ४० कन्दुकेषु १० चतुष्काणां ३ षट्काणां साह्येन ७७ धावनाङ्कान् सम्पादितवान् इषान् किषानः क्रीडाप्रवीरः जातः।