OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 12, 2026

 केरलम्। 

केरलस्य ऊर्जस्रोतः इटुक्की जलविद्युत्परियोजना @ ५०। 

प्रधानमन्त्रिण्याः इन्दिरागान्धिवर्यायाः हस्तेन चालिता। 

भारते बृहत्तमा भूगर्भजलविद्युन्निलयः। 

मूलमट्टं 'पवर् हऊस्' प्रवेष्टुं निर्मितः सुरङ्गः। 

तोटुपुष़ा> अनुस्यूतम् ऊर्जं दत्वा केरलराज्यं नैकेषु मण्डलेषु समर्थं कुर्वन्ती 'इटुक्की जलवैद्युतपरियोजना' अद्य ५० वयस्का जाता। १९७६ फेब्रुवरी १२ तमे दिनाङ्के तदानीन्तना प्रधानमन्त्रिणी इन्दिरागान्धिवर्या इटुक्की जनपदे मूलमट्टम् इत्यत्र वर्तमाने विद्युदुत्पादनकेन्द्रे [Power House] Turbine roter नामकं यन्त्रं स्वहस्ताभ्यां चालयित्वा राष्ट्राय समर्पितवती। तदनन्तरं पञ्च दशकैः विस्मयावह्यः उपलब्धयः जाताः। 

  सामान्यतः प्रतिवर्षं २३९८ एकाङ्कं [Unit] मितस्य विद्युदुत्पादनम् अत्र प्रचलति। उत्पादनक्षमता तु ७८० मेगावाट् मितमस्ति। संवत्सरमशेषं मुवाट्टुपुष़ा, तोटुपुष़ा नदीभ्यां जलं दत्वा अनैकाभिः जलवितरणपरियोजनाभिः चतुर्णां जनपदानां दाहमपाक्रियते। कार्षिकाभिवृद्धिरपि अस्याः अन्यत् प्रयोजनमस्ति। 

भूमेरन्तः विस्मयः। 

  भूमेरन्तर्भागे मानवेन निर्मितम् आश्चर्यमस्ति 'इटुक्की परियोजना'। भारते  बृहत्तमा भूगर्भजलविद्युन्निलयः एव मूलमट्टं स्थाने वर्तते। इटुक्की जलसम्भरणीतः ४६ कि मी दूरस्थस्य 'नाटुकाणि' गिरेः अधित्यकायां सार्धैककिलोमीटर् मितं दूरं यावत् स्थूलशिलां वेधयित्वा अश्वखुरत्रस्य आकारे सप्तस्तरयुक्तेन आसीत् विद्युदुत्पादननिलयस्य निर्माणम्। ६६९. २ मीटर् उपरिष्टात् एव टर्बैन् प्रति जलं पतति।