OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, February 7, 2026

 ट्रम्पशुल्कन्यूनीकरणम् 

समुद्रोत्पन्ननिर्याते शुभसूचना। 

आलप्पुष़ा> भारतीयसमुद्रोत्पन्नानां शुल्के अमेरिकया न्यूनीकृते तस्य प्रथमदिनादारभ्य वाणिज्यमण्डले शुभसूचनाः दृश्यन्ते। उभयोरपि राष्ट्रयोः बृहत्परिमाणव्यापारिणां मध्ये चर्चाः समारब्धाः। जनुवरि १५ तमदिनाङ्कतः अमेरिकां प्रति समुद्रोत्पन्ननिर्यातः पूर्णतया स्थगितः आसीत्। 

  मत्स्यानां निर्यातः एव भारतस्य सामुद्रिकायस्य मुख्यस्रोतः। विशिष्य पाठीनस्य कुलीरस्य च निर्यातः। २०२३- २४ आर्थिकवर्षे ६०,५२३ कोटि रूप्यकाणि समुद्रोत्मन्ननिर्यातेन लभन्ते स्म। तस्य ६६% पाठीरनिर्यातेन आसीत्।  ३७% समुद्रोत्पन्नानि अमेरिका एव क्रीणाति। यदा करः ५०% जातः तदा अमेरिकीयव्यापारिणः भारतात् मत्स्यक्रीणनं तिरस्कृतवन्तः। अनेन भारतस्य आयः बृहद्रूपेण आकुञ्चितः इति Sea food exporter's association इत्यस्य मुख्याधिकारिणा डो के एन् राघवेण प्रोक्तम्। इदानीं शुल्के न्यूनीकृते एक्वडोर्, वियट्नामः, इन्डोनेषिया इत्यादिराष्ट्रैः सह स्पर्धितुमवसरः जातः।