OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 6, 2026

 ऊन१९ क्रिकट् विश्वचषकः 

भारतम् अन्त्यचक्रे। 

प्राप्तशतकः आरोण जोर्जः। 

हरारे> महत्प्राप्ताङ्कान् सम्पादितवन्तम् अफ्गानिस्थानदलं सप्तद्वारकैः अभिभाव्य भारतस्य कौमारसंघः ऊननवदशवयस्कानां विश्वचषकक्रिकट् क्रीडायाः अन्तिमचक्रं प्राविशत्। पूर्वान्त्यक्रीडायां प्रथमं कन्दुकताडनं कृतवान् अफ्गानिस्थानसंघः ५० क्षेपणचक्रेषु चतुर्णां ताडकानां विनष्टे ३१० धावनाङ्कान् सम्पादयामास। भारतं तु प्रत्युत्तरे ४१. १ क्षेपणचक्रेषु त्रीन् ताडकान् विनश्य ३११ धावनाङ्कान् सम्पाद्य अनायासविजयं समुपालभत। शुक्रवासरे सम्पत्स्यमानायाम्  अन्त्यस्पर्धायां प्रतिद्वन्द्वी इङ्गलाण्टः अस्ति। 

  भारतस्य प्रारम्भकः केरलीयः आरोण् जोर्जः १०४ कन्दुकेभ्यः ११५ धावनाङ्कान् सम्पादितवान्। वैभव सूर्यवंशी ३३ कन्दुकेभ्यः ६८  धावनाङ्कान् सम्पादितवान्। नायकः आयुष् मात्रे ६२ धावनाङ्कान् सम्पादितवान्। विहान मल्होत्रा ३८ धावनाङ्कान् सम्पाद्य अबाह्यः जातः।