- मेघालये कृष्णाङ्गारखन्यां स्फोटनं - १८ कर्मकराः मृताः।
षिल्लोङ्> मेघालयराज्ये पूर्वजयन्तिया हिल्स् जनपदस्थे अनधिकृतायां कृष्णाङ्गारखन्यां दुरापन्ने स्फोटने १८ कर्मकराः मृताः। बहवः तत्र लग्नाः वर्तन्ते।
स्फोटनसमये कति जनाः खन्यामासन् यथातथसंख्या न लब्धा। उपचत्वारिंशत् जनाः तत्रासन् इति सूच्यते।