OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, February 8, 2026

 टि-२० विश्वचषकः।

भारतस्य जैत्रयात्रा आरब्धा। 

यू एसं २९ धावनाङ्कैः अभ्यभावयत्। 

यू एसं विरुध्य सूर्यकुमार यादवस्य  कन्दुकताडनम्।

मुम्बई> टि-२० क्रिकट्  विश्वचषकस्य प्रथमेदिने भारतस्य क्रीडा विजयेन समारब्धा। प्रथमस्पर्धायां यू एस् दलं २९ धावनाङ्कैः अभ्यभावयत्। दलनायकः सूर्यकुमार यादवस्य उज्वलं प्रकटनं [४९ कन्दुकेषु ८४*] भारताय विजयं सम्मानितवत्। 

  उत्क्षेपनिर्णयं नष्टीभूय कन्दुकताडनाय निर्बन्धितः  भारतदलः अप्रतीक्षितः ताडनक्लेशम् अनुभूय एकैके प्रतिनिवृत्ते दलनायकः सूर्यकुमारयादवः  एव रक्षकोSभवत्। २० क्षेपणचक्रेषु नवताडकान् विनष्ट्य १६१ धावनाङ्काः भारतेन प्राप्ताः। प्रतिक्रीडायां २० क्षेपणचक्रेषु अष्ट ताडकान् विनश्य १३२ धावनाङ्कान् सम्पाद्य अमेरिकायाः क्रीडा समाप्ता। भारताय मुहम्मद सिराजः त्रीणि द्वारकाणि पातितवान्। अक्सर पटेलः, अर्ष दीपः इत्येतौ एकैकेन द्वे द्वे द्वारके पातितवन्तौ।