टि-२० विश्वचषकः।
अद्य भारत-नमीबियाप्रतिद्वन्द्वः। 
नमीबियादलः।
नवदिल्ली> टि-२० क्रिकट् विश्वचषके गुरुवासरे भारतस्य द्वितीयप्रतिद्वन्द्वः। क्रिकटक्षेत्रे शिशवः इति प्रकल्प्यमाणः नमीबियाराष्ट्रदलः अस्ति प्रतिद्वन्दी। रात्रौ सप्तवादने दिल्ल्याम् अरुण् जयट्ली क्रीडाङ्कणे भवति भारत-नमीबियास्पर्धा।