केरलम्।
शबरी रेल् मार्गाय भूमिस्वीकारविज्ञप्तिः अचिरेण भविष्यति।
कोच्ची> दशाब्दद्वयाधिककालं यावत् स्थगिता तथा अनिश्चितत्वं प्राप्ता शबरी रेल् यानपद्धतिः पुनरुज्जीवयति। अङ्कमाली - एरुमेली रेल् मार्गाय भूमिसमार्जनविज्ञप्तिः सप्ताहाभ्यन्तरे भविष्यति। रेवन्यू विभागे एतदर्थं प्रक्रमाः पुरोगम्यन्ते।
३८१० कोटि रूप्यकाणि व्ययं प्रतीक्षमाणायै परियोजनायै नूतनसमग्रपरियोजनावेदनानुसारेण [DPR] ३०३. ५८ हेक्टर मिता भूमिः अपेक्षिता वर्तते। पेरुम्बावूर्, मूवाट्टुपुष़ा, पाला इत्येतेषु स्थानेषु भूमिसमार्जनाय कार्यालयाः उद्घाटयिष्यन्ते।
केरले विधानसभानिर्वाचनं द्वारसोपानं प्राप्नुवत् वर्तते इत्यतः निर्वाचनव्यवहारव्यवस्थायाः आगमनात्पूर्वं प्रक्रमान् पूर्तीकर्तुमुद्दिश्यते। अङ्गमालीतः कालटीपर्यन्तं रेल्निस्थानमभिव्याप्य मार्गनिर्माणं २२ वर्षेभ्यः पूर्वमेव पूर्तीकृतमस्ति।