OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, February 14, 2026

 बङ्गलादेशे बी एन् पी दलं प्रशानपदं प्राप्नोति। 

तारिख रह्मान् प्रधानमन्त्री भविष्यति। 

तारिख रह्मानः। 

धाक्का> गुरुवासरे सम्पन्ने बङ्गलादेशस्य संसन्निर्वाचने बङ्गलादेश नाषणलिस्ट् पार्टी [बी एन् पी] अधिकारपदं प्राप्नोति। सम्पन्ननिर्वाचनेषु २९९ स्थानेषु २०९ स्थानानि अनेन दलेन प्राप्तानि। मुख्यप्रतिद्वन्द्विदलेन जमा अत्ते इस्लामीदलेन नीयमानं सख्यं केवलं ६८ स्थानानि सम्प्राप। निर्वाचनस्य अन्तिमपरिणामः न विज्ञातः। 

  बी एन् पी दलस्य अध्यक्षः तारिख  रह्मानः प्रधानमन्त्री भविष्यति। दशकद्वयस्य अनन्तरमेव दलस्यास्य अधिकारप्राप्तिः।