टि-२० विश्वचषकः।
भारतेन सह स्पर्धाः बहिष्करिष्यतीति पाकिस्थानम्।
प्रत्याघातः भविष्यतीति पाकिस्थानं प्रति ऐ सि सी संस्थायाः पूर्वसूचना।
दुबाय्> टि-२० क्रिकट् विश्वचषकपरम्परायाः स्वयं स्पर्धानभिमतं प्रदर्शितेन बङ्ग्लादेशेन सह पाकिस्थानः अपि ऐक्यदार्ढ्यं प्राकाशयत्। ततः भारतेन सह क्रीडां न करिष्यामः इति च उदघोषयत्। पाकिस्थानस्य प्रक्रमं विमर्श्य ऐ सि सी [International Cricket Council] संस्थायाः व्यवहारः समागतः। बहिष्करिष्यति चेत् तीव्रः प्रत्याघातः भविष्यतीति पाकिस्थानं प्रति ऐ सि सि संस्थया निर्दिष्टम्। स्वयं एकः क्रीडापरम्परायाः एकांशं परित्यजति चेत्, कठिनं दण्डनं तस्योपरि निक्षिप्यते नूनम् इति ऐ सि सि अधिकारिभिः प्रस्तुतम्।
टि-२० विश्वचषकस्पर्धाः शनिवासरे आरप्स्यन्ते। भारते श्रीलङ्कायां च वेदिकाः निर्णीताः।