यातायातमार्गसुरक्षा, शिरासु संवेदना - कोटद्वारपरिवहनविभागेन आधारशिला-समूहेन च सेवाया: नवकार्यं समायोजितम्।
-कुलदीपमैन्दोला
कोटद्वारम्> यातायातमार्ग-सुरक्षा-जीवन-रक्षा-मासस्य अवसरं दृष्ट्वा कोटद्वार-परिवहनविभागस्य तत्त्वावधानेन आधारशिला-रक्तदान-समूह-कोटद्वारेण तथा प्रकाश-नेत्र-परीक्षण-केन्द्रेण संयुक्तरूपेण रक्तदान-शिविरं निःशुल्क-नेत्र-परीक्षण-शिविरं च आयोजितम्।
अद्यतनं दिनं केवलं पञ्चाङ्कस्य एकां तिथिं न, अपि तु कोटद्वार-नगरे ‘संवेदनाया उत्सवः’ इव अभवत्। यत्र सामान्यतः परिवहन-विभागस्य कार्यालयात् दण्डादेश-ध्वनिः श्रूयते, तत्र अद्य “रक्तदानं महादानम्” इति संकल्पनिनादेन दिनं सेवामयं जातम्। यातायातमार्ग-सुरक्षा-सप्ताहस्य अन्तर्गतं नियमपालनस्य उपदेशः प्रदीयते; तदेव अद्य सेवाया महापर्वरूपेण रक्तदान-शिविरस्य आयोजनं सिद्धयति—प्रशासनस्य हस्ते केवलं अधिकाराः न सन्ति, अपि तु करुणया कम्पमानं हृदयम् अपि अस्ति।
