रामनगरमहाविद्यालये भारतबौद्धिक-राट्रियपरीक्षायां विद्यार्थिनां उत्साहपूर्णसहभागिताभवत् ।
विद्याभारतीद्वारा समायोजिता परीक्षा।
-कुलदीपमैन्दोला।
रामनगरम्पी> .एन.जी. राजकीयस्नातकोत्तरमहाविद्यालये स्नातक-स्नातकोत्तरस्तरस्य छात्र-छात्राणां कृते विद्या-भारती-उच्चशिक्षासंस्थान- उत्तराखण्डेन आयोजितायां भारतबौद्धिक-राष्ट्रीयपरीक्षायां (2025–26) छात्रैः छात्राभिश्च अत्यन्तोत्साहेन सहभागिता कृताऽभवत्।
परीक्षार्थिनः अवदन् यत् परीक्षायां कला-विज्ञान-वाणिज्यादिविषयेषु आधारितायाः भारतीय-ज्ञानपरम्परायाः विषये प्रश्नाः पृष्टाः। प्रथमभागे 180 बहुविकल्पीयप्रश्नेषु 80 प्रश्नाणां उत्तरलेखनं अपेक्षितम् आसीत्, द्वितीयभागे च 20 अङ्कानां विस्तृतोत्तरात्मकप्रश्नेषु एकस्य उत्तरं लिखितव्यम् आसीत्। उभयविधेषु प्रश्नेषु ज्ञानवर्धकत्वं अनुभूतमिति विद्यार्थिभिः कथितम्।
विद्यार्थिनां कथनानुसारं एतादृशीनां परीक्षाणां आयोजनं निरन्तरं भवेत्, येन भारतीयसंस्कृतेः, संस्काराणां च भारतीयज्ञानपरम्परायाः विषये सहजतया अवगम्य अन्यासु प्रतियोगितापरीक्षासु अपि सफलतां प्राप्तुं शक्यते।
डॉ. सुभाषपोखरियालेन सूचितं यत् परीक्षा-समाप्तेः अनन्तरं सर्वेभ्यः प्रतिभागिभ्यः सहभागिता-प्रमाणपत्राणि प्रदत्तानि सन्ति। डॉ. मूलचन्द्रशुक्लेन उक्तं यत् प्राप्तसूचनानुसारं राष्ट्रीयस्तरे मूल्याङ्कनं कृत्वा प्रथम-द्वितीय-तृतीय- सान्त्वनस्थानप्राप्तविद्यार्थिनां निर्धारणं कृत्वा परीक्षाफलं शीघ्रं घोषितं भविष्यति तथा पुरस्कारैः सम्माननं च क्रियते।
बौद्धिकपरीक्षायाः सुचारुसम्पादनार्थं महाविद्यालयस्य प्राचार्यः प्रो. एम.सी. पाण्डेय: गठितसमितिसंयोजकः डॉ. मूलचन्द्रशुक्लः, परीक्षाप्रभारी डॉ. शरदभट्टः, डॉ. नीमा राणा, डॉ. सुभाषपोखरियालः, डॉ. मनोजनैनवालः, डॉ. हेमचन्द्रभट्टः च सम्मिलिताः आसन्। तैः सर्वैः परीक्षा-एवं-मूल्याङ्कनकार्यं पारदर्शितया तथा सकुशलतया सम्पन्नीकृतम्। प्रभारीप्राचार्यः डॉ. दीपकखातीमहोदयेन समस्तपरीक्षार्थिभ्य: उत्तमाङ्कप्राप्तये स्थानलाभाय च हार्दिकाशिषः प्रदत्त: ।
