OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, November 30, 2017

कदलीफलस्य कवचेन भाग्यं विन्दति बालिका।
विशेषवार्ता -
         
      चतस्रवयस्का बालिका स्वस्य महत्तरा कर्मणा प्रसिद्घा अभवत्। इतानीं एषा बलिका उत्तराखण्ड राज्यस्य द्वानी नगरपालिकायाः  दूतिका वर्तते। मालिन्यागरेण सम्पूर्ण पल्ली निवासिनी इयं बालिका नामधेयेन स्वभावेन च लक्ष्मी एव भवति।

घटना एवमेव आसीत्-
     विगते ओक्तोबर् मासस्य एकत्रिंशत् दिनाङ्के द्वानि देशस्ते प्रसिद्धे रामलीला भूतले सर्दार् वल्ल्भायी पट्टेलस्य जयन्ती समारोहः प्रचलत् आसीत्। शिशुवाटिकातः आरभ्य उन्नत विद्यालयछात्राः प्रौढाः च बहवः तत्र सन्निहिताः आसन् । सङ्घाटकैः सदसि विद्यमानाः सर्वाः  अपि कदलीफल-पानीयादिभिः सत्कृताः चl सर्वैः खाद्यपानीयादीनि आस्वाद्यनन्तरं फलकवचाः तथा चषकाश्च असन्तस्य अधः वा स्वस्थानस्य समीपभागे च स्थापिताः आसन् । किन्तु इयं बालिका लक्ष्मी,  फलकवचं,   उपयोगरहितं चषकं च दूरस्थम्  अवकरकण्डोले न्यक्षिपत्। एषा स्वमेधया एतत् प्रक्रिया कृता आसीत् । वेदिकायां सदसि च विद्यमानेषु यः कोऽपि चषकः फलकवचं च अवक्षयपात्रे  स्थापयितुं न उद्युक्ताः। लक्ष्म्याः सत्कर्मः  कम्मीषणर् हर्बीर् सिहेन दृष्टम् । सः ताम् वेदिकायां आहूय अभिनन्दितवान्। सर्वे जनाः ताम् आदर्श रूपेण स्वीकर्तुंम् उपादिशत् च। लज्जिताः जनाः स्वस्य अवक्षिप्तानि अवक्षय पात्रे न्यक्षिपन् च। नगरपालिकाध्यक्षेण एषा लक्ष्मी तदा एव  नगरस्य दूतिका रूपेण प्रखापिता। तस्याः अध्ययनं वस्त्रादीनां व्ययः च नगरपालिका संस्थया वोढुमपि निश्चितः अस्ति। 
Eisode 66

Wednesday, November 29, 2017

हट्ताल्- नष्टपरिहारम् आहर्तुं सर्वेषु राज्येषु न्यायालयाः अवश्यकाः - सर्वोच्चन्यायालयः।
 ‍                     नवदिली> हट्ताल् नाम  कर्मप्रतिरोधक्रियया जायमानस्य नष्टस्य गुरुत्वं गणयित्वा नष्टपरिहारं आहर्तुं सर्वेष्वपिराज्येषु तथा केन्द्रशासनप्रदेशेषु च न्यायालयस्य आयोजनाय उच्च न्यायालयेन आदिष्टः।  उच्चन्यायालयेन सह संलोच्य एकं वा द्वे जनपद न्यायाधिपानां एतस्य उत्तरदायित्वं देयम् ।
 सार्वजनिकवस्तूनां नाशनं निवारयितुं नियमानां परिष्कारे एषः नियमः अपि निवेशनीयः इति न्यायाधिपौ ए के गोयल्, यु यु ललित् च आदिशताम्। हट्तालं विरुद्ध्य न्यायवादिनः कोशि जेक्कब् महोदयस्य व्यवहारे निर्णयं कृत्वा आसीत् सर्वोच्च न्यायालयस्य एतादृश आदेशः।
जापानस्य सागरतीरं लक्ष्यीकृत्य उत्तर-कोरिय राष्ट्रेण पुनरपि अग्निसायकं विक्षिप्तम्।
          सोल्> लोकान् युद्धभीत्यां पातयित्वा उत्तरकोरियस्य 'बालिस्टिक्' सायकः जापानस्य तीरे पतितः। पञ्चाशत् मिमेषपर्यन्तं डयनं कृत्वा एव पतितः। स्थितिम् आलोकयितुं जापानस्य प्रधानमन्त्री षिन् सो आबे झटित्येव मन्त्रिमण्डलम् आहूतवान् ।

         दक्षिणकोरियस्य वार्ताहरसंस्थया योन्हाप् इत्यनेन एव सायक-विक्षेपण वार्ता प्रथमं प्रकाशिता। अनन्तरं तत्रत्याः सेनया तथा यु एस् राष्ट्रेण च वार्तेऽयं प्रमाणीकृता। उत्तरकोरियस्य राजधानीस्थ पोङ्सोङ्तः एव विक्षितः। एतस्य प्रत्युत्तरवत् दक्षिणकोरियः समानशक्तियुत सायकस्य विक्षेपणम् अकरोत्। विगते सेप्तंबर् मासे जापानस्य आकाशमार्गेण  उत्तर कोरियराष्ट्रम्  अग्निसायकविक्षेपणं कृतमासीत्।
गोवा अन्ताराष्ट्रचलच्चित्रमेला समाप्ता। 
           पनजी > अष्टचत्वारिशत्तमा गोवा अन्तर्देशीया चलनचित्रमेला समाप्ता। 'एय्ड्स्' रोगं विरुध्य प्रतिरोधप्रवर्तनानि आधारीकृत्य आविष्कृतं '१२० बीट्स् पेर् मिनिट्' नामकं फ्रन्च् देशीयं चित्रं श्रेष्ठतमचित्राय समर्प्यमाणं 'सुवर्णमयूरं' पुरस्कारं प्राप्तवत्। श्रेष्ठः नटः अपि अस्मिन् चित्रे षोण् डाल्मासो नामकं कथापात्रम् अवतारितः नाहुल् पेरस् नामकः अस्ति। 
         श्रेष्ठा अभिनेत्री इत्यस्य 'रजतमयूरं'  पुरस्कारं कैरलीभाषायां साक्षात्कृते 'टेक् ओफ्' नामके चलनचित्रे समीरा नामिकाम् अनुवैद्याम् अनश्वरां कृतवती पार्वती प्राप्तवती। टेक् ओफ् चित्रेण विधिकर्तृृणां सविशेषपुरस्कारः अपि प्राप्तः।
संस्कृतविचारसभायाः अद्य शुभारम्भः।
         अनन्तपुरी> संस्कृतभाषां सार्वजनिकं  कर्तुमुद्दिश्य  केरलसर्वकारस्य सामान्यशिक्षाविभागेन आयोज्यमाना राष्ट्रियसंगोष्ठी अद्य अनन्तपुर्यां उद्घाटयिष्यति। विक्टोरिया जूबिली तिय्येट्टर् नामिकायां वेदिकायाम् एव कार्यक्रमः।
        अद्य प्रातः १० वादने सामाजिकस्य वि.एस्. शिवकुमार् महोदयस्य आध्यक्ष्ये केरलस्य शिक्षामन्त्रिणा प्रोफ. सि रवीन्द्रनाथवर्येण संगोष्याः उद्घाटनं क्रियते। नगरपालः वी.के.प्रशान्तेन मुख्यातिथिरूपेण वर्तिष्यते। भूतपूर्वः मुख्यसचिवः आर् रामचन्द्रन् नायर् महोदयः, राज्य-शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निर्देशकः डो. जे. प्रसादः च भागभाजः भविष्यति। डो. पी. नारायणन् नम्पूतिरिवर्यः, प्रो. वी. माधवन् पिल्लावर्यः च प्रबन्धावतारणं करिष्यतः॥

Tuesday, November 28, 2017

सहिष्णुतया सह स्वीकार्यता च स्वामि विवेकनन्द्रः पाठितवान् - सन्यासिः मोक्षव्रतानन्दः ।
         अनन्तपुरी > सहिष्णुतया सह स्वीकार्यता च स्वामि विवेकनन्द्रः पाठितवान् इति श्रीरामकृष्ण मठस्य सन्यासिवर्यः मोक्षव्रतानन्दः अवदत्। स्वामी विवेकानन्दस्य पञ्चविंशत्यधिकशताब्दिपर्वणानुबन्धतया आयोजिते राज्यस्तरीय मेलने भाषमाणः आसीत् सः । त्यागः सेवा च भवतः भारतस्य आत्मा इति स्वामि             विवेकानन्देन स्वजीवनेन उद्बोधितः इति च सः अवदत्  I
अपरिमितकोटिजनानां मानसेषु अधुनापि जीवति विवेकानन्दः इति केरलस्य मुख्यमन्त्री पिणरायि विजयः  अवदत् ।  राज्य सर्वकास्य सांस्कृतिक-कार्य-विभागेन कार्यक्रमोऽयम्  आयोजितः। 
उदरे त्रिषष्ट्युत्तरद्विशतम्  नाणकैस्सहितम् पञ्चकिलोमितम् अय: ; स्तब्धा: वैद्या:।। 
          भोपालम्> मध्यप्रदेशीयस्य युवकस्य उदरात् शस्त्रक्रियया त्रिषष्ट्युत्तरद्विशतम् नाणकानि शतम् आणी: तथा आहत्य पञ्चकिलोमितम् अय: बहिर्निष्कासितम्। उदरवेदनया आतुरालयम् प्रवेशितस्य पञ्चत्रिंशत् वयस्कस्य मुहम्मद् मकसुदीनस्य उदरादेव पञ्चकिलोमितानि अयोवस्तूनि प्राप्तानि। एक्स्रे मध्ये अयस्सान्निध्यं दृष्ट्वा शस्त्रक्रियायै एनं विधेयमकरोत्
वृद्धकोशानामपि तारुण्सामर्थ्यम् विज्ञाय गवेषकाःI
        नवयौवनं सर्वेपि इच्छन्ति एव l आरोग्ययुक्त आयु: सम्पादनाय मनुष्यशरीरस्य पलितकोशान् अपि उपयोक्तुं शाक्यते इति लण्टन् एक्सटर् विश्वविद्यालयस्य गवेषकाः । रक्तवर्ण आसव-पानीये चाकलेहे द्राक्षाफले च अन्तर्लीन रवरसाट्रोलिनस्य शक्तिः  असाधारणा भवति इति तैः निरीक्षितम् । बि एम् सि सेल् बयोलजि नाम पत्रिकायां अध्ययनमिदं प्रकाशितम्।
एकाधिपतयः निर्वाचनं उद्घण्ठाजनकम् - रघुराम् राजः

           नव दिल्ली> निर्वाचितः सर्वकारः स्वस्य अधिकारिणः वाचं एव निशम्य प्रवर्तने निरतः चेत्  स्कलिते पतितुं  सन्दर्भः भविष्यति इति रिज़र्व बैङ्कस्य भूतपूर्वाध्यक्षः रघुराम राजः वदति। एतस्य परिहाराय सर्वेषां अभिमतानि ज्ञात्वा शासकाः वार्तिष्यमाणाः भवन्तु। निर्वाचन प्रक्रियया स्वेच्छाधिपतयः शासने मा आगच्छेयुः एवं चेत् तत् उद्घण्ठास्पदं भवति इत्यपि रघुरामराजेन अभिप्रेतम्।
           करः सर्वे दातव्यम् । सर्वकाराः जनेभ्यः सेवनसुविधा: विधातुं स्पर्ष्यमाणः भूयात् । प्रतिषेध प्रकाशनाय सन्दर्भः जनाधिपत्य संविधानस्य पोषणाय भवति इत्यपि अवदत् रघुरामराजः।

Monday, November 27, 2017

अग्निपर्वतविस्फोटनम् - पूर्व सूचना दत्ता - बालि विमाननिलयं पिधानं कृतम् ।
               जक्कार्ता >विनोदाय बालिद्वीपं गतवन्तः तत्रैव प्रतिबन्धिताः I अग्नि पर्वत शिखरात् भस्मः धूमः च बलि अन्ताराष्ट्र विमाननिलयस्य समीपं प्राप्तौ इत्यनेन विमाननिलयं पिधानं कृतम्। अत एव यात्रिकाः प्रतिबन्धिताः अभवन्। बालिद्वीपस्य मौण्ट् अगुङ् अग्निपर्वतेन एव भीषा उद्पादिता। जाग्रता निर्देशानुबन्धतया उपशतं विमानाति स्थगितानि। सप्त विमानाति जक्कार्त 'सुरबाय, सिङ्गपुर मार्गण पथपरिवर्तनानि कृतानि।
मार्पाप्पा अद्य म्यान्मार् प्राप्नोति। 
            याङ्कोण् > रोहिङ्ग्यन् अभयार्थिनां विरुध्य सैनिकक्रियाभिः लोकराष्ट्राणाम् अभिशंसनपात्रं म्यान्मार् राष्ट्रं अद्य फ्रान्सिस् मार्पाप्पावर्यः प्राप्नोति।  आङ् सान् स्यूची, तिन् क्यो इत्येतैः राष्ट्रनेतृभिः सह पाप्पावर्यः श्वः मेलनं करिष्यति। अपि च राष्ट्रस्य बौद्धधर्मनेतृभिः साकं चर्चां करिष्यति। 
           आङ् सान् स्यूचिनः प्रधानमन्त्रिपदप्राप्त्यनन्तरं म्यान्मर् राष्ट्रेण सह वत्तिक्कान् राष्ट्रस्य नयतन्त्रबन्धः आरब्धः आसीत्। पाप्पावर्यस्य प्रथमं दक्षिणेष्यन् सन्दर्शनं भवत्येतत्।
विश्वे संस्कृतस्य महत्त्वं वर्धमानम् अस्ति। - डो बलदेवानन्दसागर:
संस्कृतसेवासमितिः एच.के. आर्ट्स-महाविद्यालयः च इत्यनयोः सहयोगेन मङ्गलवासरे संस्कृतभाषायाः वरिष्ठस्य विदुषः प्रवाचकस्य डो बलदेवानन्दसागरस्य व्याख्यानस्य आयोजनमभवत्। महोदयेन आकाशवाण्यां दूरदर्शने च अनेकानि वर्षाणि यावत् प्रवाचन-भाषान्तरादिभिः कार्यैः सेवा दत्ता अस्ति। आधुनिक-वैज्ञानिकयुगे संस्कृतस्य महत्त्वं प्रस्थापयितुं महोदयेन उक्तम् यत् संस्कृतस्य महत्त्वं शनैः शनैः वैश्विकस्तरे वर्धितमस्ति। वैद्युताणविक-सञ्चारमाध्यमेषु  न केवलं भारतीयाः अपि तु वैदेशिकाः संस्कृतभाषां पठितुं प्रयत्नरताः सन्ति। ट्विटर् फेसबुक ब्लोग व्होट्स-एप् एन्ड्रोइड् यु-ट्युब् इत्यादिषु www इति विश्वव्यापि-जालस्थानेषु संस्कृतस्य उपयोगः वर्धितः अस्ति। नैके जनाः एतेषु माध्यमेषु संस्कृतस्य प्रयोगं कुर्वन्ति। अद्यत्वे संस्कृतभाषया जीवितभाषारूपेण जनानां मनस्सु स्थानं स्वीकृतमस्ति।  बालानां नैतिकमूल्यवर्धनाय विविधाः एनिमेटेड् इति चलचित्रकथाः सरलतया उपलभ्यन्ते। वार्तापत्राणि पत्रिकाः च नियमितं प्रकाश्यन्ते। चतुर्षु विश्वविद्यालयेषु सञ्चारमाध्यमेषु संस्कृतपत्रकारितायाः अभ्यासक्रमः चलति। संस्कृतं विश्वभाषारूपेण सर्वस्वीकृता जायमाना अस्ति।newzviewz

Sunday, November 26, 2017

पाकिस्थाने निजीय दूरदर्शन वाहिन्यः निरोधिताः
             इस्लामबाद् > पाकिस्थानस्य राजधान्यां इस्लामबादे प्रतिषेध समरंकृतवतः विरुध्य सेनया कृतायाः प्रतिक्रियायाः तत्समयसंप्रेषणं कृतवन्तः निजीय दूरदर्शनानि। किन्तु अनेन कारणेन एव एतेषां दूरदर्शनानां सम्प्रेषणे बाधा अभवत् ।  पाकिस्थानस्य विद्युत्माध्यम अयोगस्य एव आदेश: । सैनिक प्रतिक्रियायाः सम्प्रेषणं माध्यम नियन्त्रण-नियमस्य विरुद्धः इत्यनेनैव ह्रस्व -काल नियन्त्रणम् ।  किन्तु सर्वकारीय दूरदर्शनस्य नियन्त्रणं नास्ति।
              द्विसप्ताहं यावत् मार्ग-पिधानं कुर्वन्तः आसीत् जनाः ।  आरक्षकानाम् उपरि अपि आक्रमणानि कृत्वा आमासीत् प्रतिषेधः। मार्गोबन्धः, पाषाण-खण्डप्रेषणम् च प्रतिषिध्य जनाः कृताः । एतान् स्वाधीनंकर्तुं अश्रु वातः प्रयुक्तवान् सैन्यः ।  एतत् सर्वं  माध्यमैः तत्समयं सम्प्रेषितम् ॥
उच्च न्यायालयेषु वनिता- दलित सान्निध्यं न्यूनं - राष्ट्रपतिः रामनाथ कोविन्दः
          नवदिल्ली> उन्नतन्यायालयेषु वनितानां तथा दलित-विभागानां च प्रतिनिध्यं अल्पं एव इत्यनेन उद्घण्ठितः अस्ति इति राष्ट्रपतिना रामनाथ कोविन्देन उक्तम्। लो कम्मीषन् आफ् इन्त्या, नीति आयोग् एतयोः संयुक्त सम्मेलनम् उद्घाटनंकृत्वा भाषमाणः आसीत् सः। ओ बि सि, अनुसूचित-विभागजानां च  प्रातिनिध्ये बहुकालादारभ्य न्यूनत्वं असीत् । तत् अस्वीकार्यः एव। वनितानां तु चतुर्षु एका इति क्रमेण भवति, तस्मादपि अधिकं भवतु कालान्तरेण, इत्यपि राष्ट्रपतिना उक्तम्। जानपदीय संसद् न्यायालयस्य न्यायाधिपानां वैभवाः संवर्ध्य तान्‌ उन्नतन्यायालयं प्रति नयेत् । अस्य उत्तरदायित्वमपि उन्नतन्यायालयानाम् एव। किन्तु न्यायविधाने न्यूनता कदापि मास्तु इति च राष्ट्रपतिना अक्तम्।
भारतश्रीलङ्कादलयो: द्वितीयक्रिकेटस्पर्धा 
भारतश्रीलङ्कादलयो: तिसृणां क्रिकेटस्पर्धामालिकाया: द्वितीया स्पर्धा नागपुरे प्रवर्तितास्ति । प्रथमपाल्यां प्रथमे दिने श्रीलङ्कया पञ्चोत्तरद्विशतं धावनाङ्का: सम्पादिताः आसन्। लक्ष्यमनुसरता द्वितीयदिवसीयक्रीडावसानं यावत् भारतीयदलेन प्रथमपाल्यां क्रीडकद्वयस्य हानौ द्वादशोत्तरत्रिशतं धावनाङ्का: विनिर्मिता: सन्ति । भारतम्  अद्य तृतीये दिवसे सप्तोत्तरैकशतं धावनाङ्कानां वृद्धिपुरस्सरम् अग्रे क्रीडिष्यति ।
विद्यालयेषु नवोत्थानप्रतिज्ञा श्वः। 
              कोच्ची > केरलराज्ये विद्यालयेषु श्वः छात्रैः नवोत्थानप्रतिज्ञा करणीया इति शैक्षिकविभागस्य आदेशः। स्वामिविवेकानन्दस्य केरलसन्दर्शनस्य १२५तमं वार्षिकं 'विवेकानन्दस्पर्शम्' इति नाम्ना राज्ये आचरिष्यति। अस्य भागतया एव नवोत्थानप्रतिज्ञा करणीयेति निर्देशः।
          नवम्बर् २७ दिनाङ्कादारभ्य  डिसम्बर् २२ पर्यन्तं सांस्कृतिकविभागस्य नेतृत्वे राज्ये विविधाः कार्यक्रमाः आयोक्ष्यन्ते। सर्वेषु जनपदेषु सांस्कृतिकमेलनानि , कलाप्रदर्शनानि च आयोक्ष्यन्ते इति मन्त्रिणा ए के बालेन निगदितम्।

Saturday, November 25, 2017

संस्कृत-वार्तावतारण-परिशीलन शिल्पशाला सम्पूर्णमभवत्।
                कोच्ची> छात्राणां कृते सर्वशिक्षा अभियानेन आयोजिता त्रिदिनात्मक संस्कृतवार्तावतारण शिल्पशाला सम्पूर्णा  अभवत्।  आधुनिकयुगे अन्तर्जालयुत-कार्यक्रमेषु संस्कृतभाषायाः स्थानं प्रथममेव इत्यस्य प्रमाणत्वेन आसीत् छात्राणां वार्ता प्रस्तुतिः। विविध भारतीय-भाषासु संस्कृतभाषायाः स्वाधीनता अत्यधिका अस्ति। अतः संस्कृताध्ययनं मातृभाषायाः स्वाभाविक वर्धनायभवति। 
             एरणाकुलं जनपदस्य विविधेभ्यः प्रदेशेभ्यः निर्वाचितान् उप विंशति छात्रान् उद्दिश्य आसीत् एतत् विशेषसत्रम् । दिनत्रयेण वार्तावतारणे कुशलतां प्राप्ता इति। छात्रैः अभिप्रेतम्I आधुनिककाले सर्वेषु कार्यक्रमेषु अवतारकाः आवश्यकाः अतः एतादृशकार्यक्रमाः कौशलवर्धनाय भविष्यन्ति इति BRC अध्यक्षया फौसिया महोदयया उक्तम्। रक्षाकर्तारः अपि एता दृश-नवीन कार्यक्रमस्य आयोजने सन्तुष्टाः अभवन्। समागमिष्यमाणे मेय् मासे नूतनतया वार्तावतारणशिल्पशाला आयोक्ष्यते इति कार्यक्रमाध्यक्षेण जोस् पेट् महोदयेन उक्तम्।
ईजिप्ट् राष्ट्रे इस्लामदेवालये भीकराक्रमणं - २३५ मरणानि। 
            केय्रो> ईजिप्ट् राष्ट्रस्य उत्तरसिना नाम प्रविश्यायां कस्मिंश्चित् इस्लामदेवालये दुरापन्ने भीकराक्रमणेन पञ्चत्रिंशदधिकद्विशतं विश्वासिजनाः मृताः।शताधिकाः आहताः च। इस्रायेल्-पालस्तीन् सीमायां 'बिल् अल् अब्द्' नगरे अल् रौदा मुस्लिम देवालये प्रार्थनावेलायामासीत् स्फोटनरूपम् आक्रमणम्। स्फोटनानन्तरं बहिः पलायितान् जनान् वाहनैः प्राप्ताः अक्रमिणः भुषुण्डिप्रयोगेणापि मारितवन्तः। ईजिप्त् राष्ट्रस्य चरित्रे जातं बृहत्तमं भीकराक्रमणं भवत्येतत्।
         आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्। किन्तु  २०११ आरभ्य राष्ट्रे निरन्तरमाक्रमणं कुर्वन्तः ऐ एस् भीकराः एव अस्य भूमिकायामिति निगमनम्।

Friday, November 24, 2017

इस्रायेल्स्य प्रधानमन्त्री भारतं आगमिष्यति।
            जेरुसलेम्- इस्रायेल् राष्ट्रस्य प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहू वर्येण भारतं  सन्दृक्ष्यते। जनुवरिमासस्य १४ तमे दिनाङ्के एव तस्य सन्दर्शनम्। चतुर्दिवसीय-सन्दर्शनमेव सज्जीकृतम् वर्तते।  भारतप्रधानमन्त्रिणः नरेन्द्रमोदी वर्यस्य इस्रायेल् सन्दर्शनानन्तरं षण्मासमतीतम् । 
२००३ तमे वर्षे तदानीन्तनः प्रधानमन्त्री एरियल् षारोण् महाभागः भारतपर्यटनं कृतवानासीत्। ततः १५ संवत्सरानन्दरमेव अधुनातनः प्रधानमन्त्री भारतं आगमिष्यति। द्विनवत्यधिकनव शतोत्तरैकसहस्र (१९९२ ) तमे संवत्सरे नयतन्त्रबन्धस्थापनानन्तरं भारतं संदृश्यमानः द्वितीयः प्रधानमन्त्री भवति बेञ्चमिन् नेतन्याहू इत्यस्ति विशेषता।
वातावरण -परिवर्तनेन अग्नि पर्वतविस्फोटनानि अधिकतया भवितुमर्न्ति।
               लन्टन्> वातावरणव्यत्ययस्य परिणामफलेन अधिकतया अग्निपर्वत-विस्फोटनानि भविष्यन्ति इति अध्ययनम्। आगोलतपनाधिक्योन हिमखण्डानि द्रवीकृतानि भवितुमर्हन्ति। अग्निपर्वतमण्डलेषु एव द्रवीकरणं अधिकतया  भविष्यति। अत एव तत्र अधिकतया  विस्फोटनानि भवितुमर्हति।
भौमोपरि मण्डले वायुमर्दे जायमानं व्यत्ययम् अन्गिपर्वतविस्फोटनं वर्धापयति।
ऑण्लैन् आधारीकृत्य कर्मसु भारतं प्रथमस्थाने
        अन्तर्जाल-माध्यमद्वारा स्वेच्छाया कर्मकुर्वत्सु भारतीयाः एव अधिकाः इति अध्ययनफलम्। ओक्सफोड् विश्वविद्यालयस्य अन्तर्जालसंस्थया कृतेषु अध्ययनेषु अन्तर्जालद्वारा कर्मसु २४% भारतीयाः व्यापृताः सन्ति। बंगलादेशे १६% (द्वितीयं स्थानं)अमेरिका १२% (तृतीयंस्थानं) फिलिप्पैन्स् यु के च पृष्टतः च स्तः। विविधेषु राज्येषु विविधकर्ममण्डलेषु प्रवर्तनं केन्द्रीकृतम्। भारतस्य अन्तर्जाल कर्मकराः प्रतिशतं पञ्च-पञ्चाशत् कर्माणि सोफ्ट्वेर् अनुबन्धतया एव भवति । वित्तमण्डलेषु वाणिज्य-मण्डलेषु नियमोपदेश मण्डलेषु च यु के राष्ट्रसमुच्चयः एव पुरतः तिष्टति।
         ऑण् लैन् वेदिकेति विख्याताः फीवर्, फ्रीलान्सर्,  गुरु, पीप्पिल्, पेर् अवर्  इति प्रमृतीनां विवरणसञ्चयान् अपग्रथनंकृवा एव अध्ययनावेदनं निर्मितम्।

Thursday, November 23, 2017

आयकरनियमः समूलं  परिष्क्रियते। 
        नवदिल्ली > आयकरस्य शासनविधिं समग्रं परिष्कर्तुं केन्द्रसर्वकारेण षडङ्गसमितिः नियुक्ता। पञ्चाशत्संवत्सराणां प्राचीनतमम् अधुनातनविधिं राष्ट्रस्य नवीनार्थिकार्हतामनुसृत्य परिष्कर्तुमेव निर्देशः कृतः। केन्द्र प्रत्यक्षकरसमित्यङ्गः अरबिन्द् मोदी भवत्यस्याः समित्याः अध्यक्षः।
मानवमूल्य-संरक्षणाय संस्कृत अध्ययनम् आवश्यकम् - उत्तरप्रदेशराज्यमन्त्री  डॉ. वाचस्पति मिश्रः

        जयपुरम्> दाऊ स्थित जगद्गुरु रामानंदाचार्य: राजस्थान संस्कृत विश्वविद्यालयस्य श्रीरामानंदाचार्य: सभागारेस्मिन् मंगलवासरे एकदिवसीय राष्ट्रिय: शोध-संगोष्ठी: अभवत्। सङ्गोष्ठया: विषयः "संस्कृतसाहित्यस्य मूलतत्त्वविमर्श:" आसीत्। सङ्गोष्ठयां मञ्चे मुख्यातिथि: विधायक: श्री मोहन लाल गुप्ता दीक्षान्त भाषणाय  केंद्रीय: संस्कृत आयोगस्य सदस्य: देवर्षि कलानाथ: शास्त्री विश्वविद्यालयस्य कार्यवाहक-कुलसचिव: श्री सम्बसदाशिवमूर्ति: च आसन्। सङ्गोष्ठया: संयोजिका साहित्य च विभागाध्यक्षा डॉ. स्नेहलता शर्मा उक्तवती यत् सङ्गोष्ठया: विशिष्टातिथि: उत्तरप्रदेश-संस्कृत-संस्थानस्य अध्यक्ष: राज्यमंत्री च डॉ. वाचस्पति मिश्रवर्येण उक्तं यत् मूल्य संरक्षणस्य संस्कृत अध्ययनम् आवश्यकमस्ति। सङ्गोष्ठया: अध्यक्ष: विश्वविद्यालयस्य कुलपति: प्रो. विनोद: शास्त्रीवर्येण उक्तं यत् भारतीय संस्कृति: विश्वस्य प्राचीन संस्कृति: प्रथमश्च संस्कृति: अस्ति। एतदर्थं जीवने प्रत्येकं मनुष्यं आध्यात्मिक मूल्याणां प्रयोग: करणीयः। आध्यात्मिक मूल्यात् जीवनम् अग्रे गच्छति। सङ्गोष्ठयां शाश्वत: मूल्यं धर्मः-कर्मः मोक्ष-भारतीय-आचार-दर्शन: आदिभौतिक: आदिवैदिक: एवं आध्यात्मिक मूल्याणाम् विचाराः व्यक्तं कृतवन्तः। सङ्गोष्ठया: अंतिमे कुलसचिव महोदयेन आगन्तुकनाम् स्वागतम् धन्यवादश्च ज्ञापितम्।

Wednesday, November 22, 2017

अन्ताराष्ट्रन्यायालये भारतस्य विजयः
न्यायाधिपपदे पुनरपि दलवीर भण्डारिः।

              न्यूयोर्क्> भारतस्य नयतन्त्रविजयः। अन्ताराष्ट्र न्यायालयस्य न्यायाधिप-निर्वाचने नाटकान्तता। ब्रिट्टणं पश्चात्कृत्य भारतस्य दलवीर भण्डारिवर्यः न्यायाधिपपदमारूढवान् । सप्ततिवयस्कः भण्डारिवर्यः ब्रिट्टणस्य क्रिस्तफर् ग्रीन्वुड् वर्यम् एव प्रतिस्पर्धितवान् इति अत्र निदर्शनात्मकमिदं, यद्  भारतस्य नयतन्त्रचतुरतायाः विजयः अभूदिति। सार्वजनिक सभायाः त्रिनवत्यधिक एकशतं सम्मतिदानेषु त्र्यशीत्यधिक एकशतम् (१९३/१८३) सम्मतिदानानि तथा रक्षा समित्याः पञ्चदश सम्मतिदानानि च  लब्ध्वा भण्डारी महाभागः विजयी अभवत्। । आगामि नवसंवत्सरपर्यन्तं न्यायाधिपत्वं वोढूं शक्यते भण्डारिवर्याय।