भारतीय-तत्वचिन्तामण्डलस्य आधुनिकप्रवाचकः पि परमेश्वरः विष्णुपदं प्राप्तवान्।
पालक्काट्> भारतीय-तत्वचिन्ता-मण्डलस्य प्रवाचकः भारतीयविचार केन्द्रस्य वरिष्ठनिर्देशकः पूजनीयः परमेश्वर जी महोदयः दिवङ्गतः अभवत्I ९३ वयस्कः एषः आयुर्वेद औषधालये चिकित्सायाम् आसीत्। पद्मश्री, पद्मविभूषणम् अमृतकीर्तिः इत्यादि उपाधिभिः सम्मानितः आसीत्I अद्य सायं चतुर्वादने मुहम्मदेशे भवति महोदयस्य अन्त्येष्ठिः।















