आन्ध्रप्रदेशे विद्यालयोद्घाटनस्य पश्चात् २६२ छात्रेभ्यः १६० अध्यापकेभ्यः च कोविड् रोगबाधा।
OUR YouTube Channel 1. SampratiVartah |
marquee
Friday, November 6, 2020
Thursday, November 5, 2020
कोरोणवैराणोः पश्चात् एच् १ एन् २ वैराणुबाधा आशङ्क्यते।
ओट्टाव> कानड राज्ये एच् १ एन् २ वैराणुबाधा आशङ्क्यते।
मनुष्येषु अत्यपूर्वा वैराणुबाधा एव कानड राज्यस्य अल्बर्टो प्रदेशे एव अणुबाधा अभिज्ञाता। कोराणवैराणोः आलोकनावसरे आसीत् अणुबाधायाः अभिज्ञानम्। जलदोष-ज्वरेण समागतेषु रोगिषु एव एच्१ एन् २ वैराणु सान्निध्यं प्रत्यभिज्ञातम् इति अल्बर्टो प्रधान-औषधाधिकारिणा आवेदितम्।
सामाजिकान् विरुध्य दण्ड्यप्रकरणेषु गतिरोधः - सर्वोच्चन्यायालयः अतृप्तिं प्राकाशयत्।
नवदिल्ली> जनसभा-विधानसभाङ्गानि विरुध्य दण्ड्यपराधप्रकरानि विविधेषु न्यायालयेषु गतिरोधं प्राप्तानीत्यस्मिन् विषये सर्वोच्चन्यायालयेन अतृप्तिः प्रकाशिता। पश्चिमवंगे ३५संवत्सरप्राप्तानि एतादृशप्रकरणानि वर्तन्ते इति कोल्कोत्ता उच्चन्यायालयस्य नीतिज्ञे सूचिते आसीत् न्याय. एन् वि रमणस्य अध्यक्षत्वे विद्यमानेन नीतिपीठेन एवम् अतृप्तिः स्पष्टीकृता।
एतादृशानि २५०० प्रकरणानि राष्ट्रस्य विविधेषु न्यायालयेषु निश्चलानि वर्तन्ते। भूतपूर्वसामाजिकानां प्रकराणानि अभिव्याप्य एषा संख्या ४४०० उपगच्छेत्। वर्तमानान् 'एम् पि , एम् एल् ए' सामाजिकान् विरुध्य विद्यमानानि प्रकरणानि उपधां कृत्वा शीघ्रं समापयितुं सविशेषाः न्यायालयाः संस्थापनीयाः इति सामान्यतात्पर्ययाचिकायाः परिगणनावेला आसीदयं सन्दर्भः।
जनप्रतिनिधिविरुद्धानां दण्ड्यप्रकरणानां कृते सविशेषन्यायालयाः स्थापनीयाः इति सर्वोच्चन्यायालयेन २०१७ तमे केन्द्रसर्वकारं प्रति निगदितमासीत्।
लडाक् प्रदेशस्य भारतसैनिकेभ्यः अमेरिक्कस्य सुखोष्णयुतकम्।
नवदिल्ली> चीनस्य सीमनि विन्यस्तेभ्यः भारतसैनिकेभ्यः शीताद्ररक्षाय अमेरिक्कस्य सुखोष्णयुतकम्। सियाच्चिन् प्रदेशस्य पश्चिमयुद्धमुखे पूर्वलडाके च विन्यस्ताः सैनिकाः इदं युतकम् उपयोक्तुम् आरभन्त। समुद्रतलात् १२००० पादोन्नत्यां वर्तामानेषु एतेषु प्रदेशेषु तापमानं शुन्यात् ५०° (डिग्रि) इति भवति। अतः एव वस्त्रस्य आवश्यकता अवश्यमभवत्।
Wednesday, November 4, 2020
न्यूसिलान्टमन्त्रिमण्डले प्रप्रथमं भारतकुलजा।
मेल्बण्> न्यूसिलान्ट् राष्ट्रे जसिन्डा आर्डेण् इत्यस्याः मन्त्रिमण्डले प्रप्रथमं भारतीयकुलजातायै अङ्गत्वमलभत। केरलीया प्रियङ्का राधाकृष्णः समाज-सन्नद्धमण्डल-युवजनविभागानां मन्त्रिणी भविष्यति।
२०१७तमे 'लेबर् पार्टी' दलस्य प्रतिनिधिरूपेण जनसभां प्राप्ता। वर्षद्वयानन्तरं गोत्रसमूहविभागमन्त्रिणः निजीयकार्यदर्शिरूपेण नियुक्ता।
प्रियङ्कामभिव्याप्य ५ अङ्गाः मन्त्रिमण्डले अन्तर्भूताः। नूतनाः शुक्रवासरे शपथसमारोहं करिष्यन्ति।
Tuesday, November 3, 2020
भूकम्पावशिष्टात् वर्षत्रयवयस्का ६५ होरानन्तरं रक्षिता
अङ्कार> तुर्की-ग्रीस् देशयोः दुरापन्ने भूकम्पे ९४ जनाः एतावत् पर्यन्तं मृताः। रिक्टर् मापिन्यां ७.o इति भूकम्पनस्य शक्तिम् अङ्कितायां दुर्घटनायां पतितस्य गृहावशिष्टस्य अधस्थात् वर्षत्रयवयस्का बालिका ६५ होरानन्तरं रक्षिता। अग्निशमनसेनानिना मु आमिर सेलिक् इत्याख्येन बालिका रक्षिता।
बिहारे द्वितीयसोपानमतदानं समारब्धम्।
पट्ना> बिहारस्य राजनैतिकगतिसूचकं भवति अद्य समारब्धं द्वितीयसोपानं विधानसभानिर्वाचनम्। १७ जनपदेषु ९४ मण्डलेषु मतदानप्रक्रिया समारब्धा।
महासख्यस्य मुख्यमन्त्रिस्थानाशी तेजस्वी यादवः, सोदरः तेज प्रतापयादवः, नितीषस्य मन्त्रिमण्डले वर्तमानाः ६ मन्त्रिणः इत्यादयः अद्यतननिर्वाचने जनविधिं कांक्षन्ते।
Monday, November 2, 2020
कोविड् रोगिणा सह सम्पर्कः विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः एकान्तवासे।
जनीव> कोविड् रोगग्रस्तेन सह स्वसम्पर्कः अभवत् अतः स्वयम् एकान्तवासे तिष्ठन्नस्मि इति विश्वस्वास्थ्य-सङ्घटनस्य अध्यक्षेण टेड्रोस् अदनों गेब्रियेससेन उक्तम् ।किन्तु एतावत्पर्यन्तम् अस्वास्थ्यं न अनुभूतम्। तथापि गृहे उपविश्य स्व कर्मसु व्यापृतो भविष्यामि इति तेन उक्तम्।अस्माभिः स्वास्थ्यमार्गनिर्देशाः पालनीयाः। रोगाणुव्यापनस्य श्रृङ्खला नाशनीया इत्यपि तेनोक्तम्।
यु एस् राष्ट्रपतिनिर्वाचनं श्वः।
चतुर्षु राष्ट्रेषु बैडनस्य अग्रगामित्वमिति पर्यवेक्षणम्।
वाषिङ्टण्> यू एस् राष्ट्रे ४६तमं राष्ट्रपतिनिर्वाचनं श्वः भविष्यति। अतिप्रधानेषु चतुर्षु राज्येषु 'डमोक्राटिक्'दलीयः स्थानाशी जो बैडनः अग्रे तिष्ठतीति निर्वाचनपूर्वपर्यवेक्षणे स्पष्टमिति सूच्यते।
ट्रम्पस्य रिपब्लिक् बैडनस्य डमोक्राटिक् राजनैतिकदलयोः समानशक्तिं परिगण्यमानेषु विस्कोण्सिन् , पेन्सिल्वानिया, फ्लोरिडा, अरिसोणा इत्येतेषु उत्तरपूर्वराज्येषु एव बैडनस्य अग्रेसरत्वं प्रोक्तम्।
आधिकारिकं निर्वाचनं नवंबरस्य तृतीये दिनाङ्के भविष्यत्यपि मतदानप्रक्रिया सेप्तम्बरमासस्य प्रथमसप्ताहे एव प्रारब्धा आसीत्। ३.३ कोटिजनाः साक्षाद्रूपेण ५.८ कोटिजनाः पत्रलेखद्वारा च मतदानं कृतवन्त इति सूच्यते।
Sunday, November 1, 2020
तैवाने कोविड् रहितं २०० तमं दिनम्।
Saturday, October 31, 2020
भविष्यनिधिनिषेधः - केरले भाषाध्यापकाः प्रतिषेधान्दोलने।
कोच्ची> केरले दशाब्दैः विद्यालयीयशिक्षकेषु कश्चनविभागः भविष्यनिधिनिषेधेन पीड्यते। संस्कृतम्, अरबी, उर्दु, हिन्दी विभागेषु Part-time रूपेण नियुक्तानां अध्यापकानां कृते २०१२ तम संवत्सरादारभ्य भविष्यनिधि आनुकूल्यः [Provident Fund] निषिद्धः। केषाञ्चन कृते २००२ आरभ्य एव आनुकूल्योयं निषिद्ध आसीत्। संवत्सरैः तत्तत्कालीनशासकानां पुरतः निवेदनेषु समर्पितेषु निष्प्रयोजनमभवदिति कारणतः 'केरलसंस्कृताध्यपकफेडरेषन्' [KSTF(D&P)] इत्यस्य संघटनस्य नेतृत्वे गतदिने प्रत्यक्षान्दोलनकार्यक्रमाः आरब्धाः।प्रथमसोपानेन 'ओण् लैन्' प्रक्षोभः समारब्धः। राज्यस्य १४० विधानसभासामाजिकानां समक्षं आवेदनानि समर्पितानीति संघटनस्य मुख्यकार्यदर्शी सि पि सनलचन्द्रः अवोचत्।
सर्वकारस्य वित्त-शैक्षिकमन्त्रालययोः कूर्मगमनमेव अस्मिन् विषये काल विलम्बस्य मुख्यहेतुरिति संघटनस्य प्रधानकार्यदर्शिना पि जि अजितप्रसादेन उक्तम्।
वाट्सप्, फेस् बुक् , ट्विटरादि नवमाध्यमद्वारैः यावच्छक्यं प्रतिषेधप्रकाशनं कृत्वा निष्फलं चेदपि कोविड्परिनिष्ठां परिपाल्य आन्दोलनस्य आगामिसोपानानि आरप्स्यन्ते इति संघटनानेतृत्वेन निगदितम्।
तुर्किदेशे भूकम्पः १४ जनाः मारिताः ४१९ व्रणिताः।
अङ्कारा> तुर्किदेशस्य पश्चिमतीरे दुरापन्नेन भूभ्रंशेन १४ जनाः मारिताः ४१९ व्रणिताः इति दुरन्त-निवारणविभागेन ज्ञापिताः। ग्रीस् मध्ये द्वौ छात्रौ च मृतौ। भूकम्पस्य प्रतिफलनेन समासो द्वीपे लघु 'सुनामि' जाता। बहूनि गृहाणि भग्नानि इति प्रादेशिकीयैः वार्तामाध्यमैः आवेद्यते। 6.6 इति रिक्टर् मापिन्यां भूकम्पस्य शक्तिः अङ्किता इति तुर्की भौमशास्त्रविभागेन निवेदितम्।
बीहारनिर्वाचनं - प्रचारवेदिकासु कोविडस्य संग्रामापातः।
पट्ना> मुखावरणरहिताः नेतारः अनुयायिनश्च। अणुनाशनसामग्रीमधिकृत्य 'न श्रूयते न च दृश्यते'। सामाजिकदूरपालनं विस्मृतम्। बिहारराज्ये नगर-ग्रामभेदं विना निर्वाचनप्रचरणवेदिकासु दृश्यमानं दृश्यमेवेतत्।
राज्ये सर्वत्र कोविड्महामारेः संग्रामापात एव दृश्यते। प्रचारणाय नेतृत्वं वूढवन्तः केचन नेतारः रोगग्रस्ताः अभवन्निति अस्य कठोरतां स्पष्टीकरोति। उपमुख्यमन्त्री सुशीलकुमारमोदी , केन्द्रमन्त्रिणी स्मृती इरानी, देवेन्द्र फड्नविसः, राजीवप्रताप रूडी, षानवास् हुसैनः इत्येते भा ज पा नेतारः अपि कोविड्ग्रस्ताः जाताः।
निष्कर्षपरिशोधनायाः अभावात् सामान्यरोगिणां संख्या राज्यस्वास्थ्यविभागेन न ज्ञायते च। कोविड्परिनिष्ठाः सम्यक् पालनीयाः इति निर्वाचनायोगस्य निदेशः जलरेखा अभूत्।
Friday, October 30, 2020
Thursday, October 29, 2020
बिहारे मतदानं ५४.२६%
पट्ना> बिहारे विधानसभानिर्वाचनस्य प्रथमसोपाने प्रतिशतं ५४.२६ जनाः मतदानं कृतवन्तः। १६ जनपदेषु ७१ मण्डलेषु सम्पन्ना मतदानप्रक्रिया शान्तिपूर्णा आसीत्। नक्सल् बाधितप्रदेशेष्वपि मतदानं शान्तियुक्तं सम्पन्नम्। सर्वत्रापि कोविड्परिनिष्ठां परिपाल्य एव मतदानपदक्षेपाः सम्पन्नाः।
प्रभाते सप्तवादनतः सायं षड्वादनपर्यन्तमासीत् मतदानम्। कैमूर नामकमण्डले उच्चतमं मतदानं कृतं - ५५.९५%।
चन्द्रोपरितले जलसान्निध्यं - 'नास'।
Wednesday, October 28, 2020
चीनं विरुध्य सोदरभावेन अमेरिका च।
'बेक्का' सन्धौ हस्ताक्षरं कृत्वा भारतम् अमेरिका च।
नवदिल्ली> राष्ट्रसुरक्षामण्डले परस्परसाहाय्यं सहयोगं चाभिलक्ष्य भारतामेरिक्कयोर्मध्ये बेक्कानामकः सहयोगसमयः हस्ताक्षरीकृतः। चीनभारतसंघर्षे विद्यमाने अमेरिकया सह भारतस्यायं समयः उभयोरपि राष्ट्रयोः चीनाविरुद्धतायै सहायकं भवतीति केन्द्रसर्वकारेण सूच्यते।
प्रमुखाः सैनिक-साङ्केतिकविद्याः , व्योमभौमदेशालेख्यपत्राणि , सैनिकोपग्रहेभ्यः प्रसार्यमाणाः सूक्ष्मवृत्तान्तांश्च अन्योन्योपकारकरीत्या विनिमयं कर्तुमुद्दिष्टो भवति 'बेक्का' [Basic Exchange & Cooperation Agreement] नामकमयं सन्धिः।
हिस्बुल् अध्यक्षमभिव्याप्य १८ पुरुषाः भीकरा इति प्रख्यापिताः।
नवदिल्ली> हिस्बुल् मुजाहिदीन् नामकातङ्कवादसंस्थायाः नेता सयिद् सलाहुदीनः तथा 'इन्ड्यन् मुजाहिदीन्' स्थापकौ 'भट्कल् सोदरौ' इत्येतान् अभिव्याप्य नानाभीकरसंस्थाप्रवर्तकाः १८ जनाः केन्द्रसर्वकारेण यू ए पि ए नीत्यनुसारं भीकराः इति प्रख्यापिताः। हिस्बुल् संघटनं विना लष्कर् ई तोय्बा, जय्षे मुहम्मद्, इन्ड्यन् मुजाहिदीन्, दावूद् इब्राहिं संघः इत्येतेषां संघटनानां प्रवर्तकाः एव भीकरावल्यामन्तर्भूताः।
Tuesday, October 27, 2020
शान्तिकालप्रवर्त्तनानि स्थगयितुं भारतसेना आदिष्टा।
नवदिल्ली> चीन-भारतयोः सीमनि नियन्त्रण-रेखायां चीनेन सैनिकाः विन्यस्थाः इति कारणेन भारतसैनिकेभ्यः जाग्रतानिर्देशः अदात्। शान्तिकालप्रवर्त्तनि स्थगयितुं सैनिकाध्यक्षेण बिपिन् रावतेन भारतसेना आदिष्टा। भारतमहासमुद्रे चीनस्य युद्धनौकायाः विन्यासस्य अवलोकनाय अन्टमान-निकोबार द्वीपसमूहस्य 'संयुक्तकमान्ट्' विभागाय निर्देशः अदात्।
बिहारे विधानसभानिर्वाचनस्य प्रथमसोपानं श्वः।
पटना> बिहारस्य विधानसभानिर्वाचनस्य प्रथमसोपाने १६ जनपदानां ७१ मण्डलेषु बुधवासरे मतदानं भविष्यति।
१०६६ स्थानाशिनः स्पर्धावेदिकायां सन्ति। ७१ मण्डलेषु शब्दप्रचरणं ह्यः सायं समाप्तम्।
त्रिभिः सोपानैरेव बिहारे निर्वाचनं विधास्यति। द्वितीयसोपानं नवंबर् तृतीयदिनाङ्के तृतीयं सोपानं सप्तमदिनाङ्के च भविष्यति। दशमे मतगणना विधास्यति।
आणवनिरोधनसन्धौ जापानः विमुखतां प्राकटयत्।
टोकियो> आणवायुध- निरोधनाय ऐक्यराष्ट्रसभायाः सन्धेः जपानेन मुखं परिवर्तितम्। अस्मिन् सन्धौ हस्ताक्षरं कर्तुं विप्रतिपत्तिरस्ति इति जपानस्य सचिवप्रमुखेन कट्स्तुनोबु काट्टो इत्याख्यान उक्तम्। आणवायुधरहितो विश्वः जापानस्य लक्ष्यम्। किन्तु ऐक्यराष्ट्रसभायाः सन्धिः आणवायुध-निर्माजनाय न पर्याप्तः इति तेन उक्तम्। विगते दिने ५० राष्ट्राणि अणवनिरोधन सन्धौ हस्ताक्षरं कर्तुं विमुखतां प्रदर्शितवन्तः सन्ति इति ऐक्यराष्ट्रसभया अवेदितम् आसीत्। अमेरिका अपि हस्ताक्षरविमुखानां गणे अस्ति।
Sunday, October 25, 2020
आगामिसंवत्सरे शतकोटिमात्राः कोविड्वाक्सिनः।
पूणे> कोविड्वाक्सिनौषधस्य १०० कोटिमात्राः आगामिसंवत्सरे सज्जीकरिष्यति। सिरम् इन्टिट्यूट् आफ् इन्डिया इत्यस्य अधिकारी अदार् पूनावाला इत्यसौ अभिमानं कृतवान्। वर्तमानं परीक्षणसोपानं प्रविष्टानां पञ्च वाक्सिनानां १०० कोटिसंख्याकाः मात्रा एव २०२० -२१ आर्थिकसंवत्सरे लभ्यं कर्तुमुद्दिष्टाः इति सः वार्ताहरान् प्रति उक्तवान्।
आस्ट्र सेनक्का नामिकया ब्रिटीशसंस्थया सह ओक्स् फेड् विश्वविद्यालयेन विकसितं 'कोविषील्ड्' इत्यौषधं विना 'कोवोवाक्स्', 'कोविवाक्स्', 'कोवि वाक्', 'एस् ऐ ऐ कोवाक्स्' इत्येतानि औषधानि संस्थया उत्पाद्यन्ते। सम्प्रति तृतीयसोपान-क्लिनिक्कल् परीक्षणेषु पुरोगम्यमाने 'कोविषील्ड् वाक्सिने' आरभ्य आगामिजनवरिमासात् त्रैमासिकं एकैकं वाक्सिनौषधं बहिर्गमयितुमेव संस्थया लक्ष्यीक्रियते।
Saturday, October 24, 2020
यू एस् राष्ट्पतिनिर्वाचनं - अन्तिमसंवादः परिनिष्ठया समाप्तः।
वाषिङ्टण् > सीमालङ्घने स्वनग्राही निश्शब्दः भविष्यतीत्यादीनां नियन्त्रणानां गुणफलमभवत्। यू एस् राष्ट्रपतिनिर्वाचनात् पूर्वं प्रचलितायां राजनैतिकसंवादपरम्परायां अन्तिमसंवादस्य समङ्गलपरिसमाप्तिः। गुरुवासरस्य निशीथिन्यां 'नाष्विल्' इत्यत्र सम्पन्ने संवादे 'रिप्पब्लिक्कन् पार्टी' स्थानाशी डोणाल्ड् ट्रम्पः 'डमोक्राटिक् पार्टी' स्थानाशी जो बैडन् च कोविड्, पर्यावरणव्यतियानं, वंशीयता इत्यादिषु प्रकरणेषु स्वकीयमतानि उपस्थापितवन्तौ।
सार्धहोराकालं दीर्घितः संवादः क्रिस्टिन् वेल्कर् नामिकया दृश्यमाध्यमप्रवर्तकया नियन्त्रितः। 'एन् बी सी न्यूस्' इत्यस्य लेखिका तथा अवतारिका च वेल्कल् संवादनियन्त्रणविषये प्रशंसां प्राप्तवती।
Friday, October 23, 2020
अफ्गानिस्थाने तालिबानस्य आक्रमणं - ३४ सैनिकाः हताः।
काबूल्> अफ्गानिस्थानस्य उत्तरप्रविश्यान्तर्भूते बहारक् जनपदे मङ्गलवासरस्य अर्धरात्रौ तालिबानेन कृते आक्रमणे प्रविश्यायाः सहारक्षकमुख्यः अभिव्याप्य ३४ सुरक्षासैनिकाः हताः। अनेके व्रणिताश्च।
तालिबानं विरुध्य सैनिकपदक्षेपं लक्ष्यीकृत्य आगतां सुरक्षासेनामभिगम्य आसीदाक्रमणम्। १६ जनपदात्मिकायाः ठखरनामकप्रविश्यायाः ११ जनपदान्यपि तालिबानस्य नियन्त्रणे एव वर्तन्ते।
Thursday, October 22, 2020
थार मरुस्थले १.७२ संवत्सरात् पूर्वम् अप्रत्यक्षा नदी सन्दृष्टा।
![]() |
| थार मरुः |
बिक्कानेर् समीपस्थाः नद्याः २०० किलो मीट्टर् दूरे एका नदी प्रवहिता आसीत् इति गवेषकाः अभिप्रेन्ति। अस्याः नद्याः साहाय्येन प्राचीन शिलायुग मनुष्याः कालं यापयन्तः। अनुसन्धानेन अधिकानि प्रमाणानि लप्स्यन्ते इति गवेषकः जिं बोब् ब्लिङ्क होण् इत्याख्यः गवेषकः अवदत्।










