OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, May 17, 2026

 होर्मुस्-जलान्तरालं तीर्त्वा भारतस्य एकादशतमा पण्यनौका; २०,००० मीट्रीक्-टण् परिमितम् एल्.पी.जी. वायुं नीत्वा 'सिमी' गुजरात्ततटं प्राप्रवती।

​नवदेहली> होर्मुस्-जलान्तरालस्य पिधानानन्तरं तन्मार्गं तीर्त्वा इतःपर्यन्तं भारतस्य एकादश पण्यनौकाः  गुजरातराज्यं प्राप्तवत्यः। २०,००० मेट्रिक्-टण् परिमितं द्रवीकृत-पैट्रोलियम्-वायुं (LPG) नीत्वा 'सिमी' नामिका पण्यनौका रविवासरे गुजरात्तस्य कण्डलास्थितं 'दीनदयाल' पत्तनं संप्राप्ता।

​इयं नौका कत्तर् देशस्य 'रास् लफान्' टर्मिनल्-तः प्रस्थिता आसीत्। मेय् मासस्य १३ दिनाङ्के एषा होर्मुस्-जलान्तरालं तीर्णवती अपि मेय् १७ दिनाङ्के एव गुजरात्तराज्यं प्राप्तवती। भारतस्य पाकवायु-वितरणे (LPG) वर्तमानस्य न्यूनतायाः निवारणाय एतस्मिन् नौकायां स्थितायां २०,००० मेट्रिक्-टण् परिमितेन पाकवायुना महती साहाय्यं भविष्यति।