चीना राष्ट्रे दरिद्रा निर्माजनं सम्पूणम् अभवत् - षि जिन् पिङ्
बेय्जिङ्> तीव्रदारिद्र्यं निर्माजनं कृतम् इति चीनस्य राष्ट्रपतिः षि जिन् पिङ्ः अवदत्। अल्पकालेन कोटिशान् जनान् दारिद्र्यात् निर्मुक्तं कर्तुम् अन्यराष्ट्राणि अशक्तानि इति तेन उक्तम्। बेय्जिङ् मध्ये कृते विशिष्टकार्यक्रमे भवति षी जिन्पिङ्स्य ख्यापनम्। इतिहासे लेख्यमानं आदर्शभूतं मनुष्याद्भुतं भवति इदम् इति तेनोक्तम्।OUR YouTube Channel 1. SampratiVartah |
marquee
Tuesday, March 2, 2021
कोविड् वाक्सिनीकरणं - द्वितीयसोपानं प्रधानमन्त्रिणा उद्घाटितम्।
नवदिल्ली> दिल्ल्याम् 'एयिम्स्' आतुरालये प्रधानमन्त्रिणः 'कोवाक्सिन'स्वीकरणेन भारते कोविड्प्रतिरोधसूचीप्रयोगस्य द्वितीयं सोपानं समारब्धम्।षष्ट्यधिकवयस्कानां तथा ४५ अधिकवयस्कानां कठिनरोगिणां कृते च द्वितीयसोपाने वाक्सिनीकरणं विधत्तम्। चेन्नै मध्ये सर्वकारीयवैद्यशास्त्रकलालये उपराष्ट्रपतिः वेङ्कय्यनायिडुः वाक्सिनं स्वीकृतवान्। केन्द्रगृहमन्त्री अमित् शाहः , विदेशकार्यमन्त्री एस् जयशङ्करः,केन्द्रसहमन्त्रिणः बिहारस्य मुख्यमन्त्री नितीष्कुमारः इत्यादयः प्रमुखाः गतदिने वाक्सिनं स्वीकृतवन्तः।
Monday, March 1, 2021
भूमेः तापः नियन्त्रितः भविष्यति। सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता।
भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान् रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)
Sunday, February 28, 2021
चतुर्षु राज्येषु पुतुच्चेर्यां च विधानसभानिर्वाचनानि प्रख्यापितानि।
नवदिल्ली> भारते असमः केरलं पश्चिमवंगः तमिल्नाट् इत्येतेषु राज्येषु पुदुच्चेरी नामककेन्द्रशासनप्रदेशे च विधानसभानिर्वाचनानि उद्घुष्टानि। मार्च् २७ दिनाङ्कतः निर्वाचनप्रक्रिया समारप्स्यते। मतगणना मेय् द्वितीयदिनाङ्के भविष्यति।
पश्चिमवंगे अष्टसोपानात्मकमतदानप्रक्रिया मार्च् २७ तमे अरभ्यते। अष्टमसोपानं एप्रिल् २९दिनाङ्के समाप्स्यते। असमेSपि तद्दिने आरभ्यमाणे मतदानकार्यक्रमे त्रीणि सोपानानि सन्ति। अन्तिमसोपानम् एप्रिल् ६ दिनाङ्के भविष्यति।
केरलं तमिल् नाट् पुतुच्चेरी इत्येतेषु स्थानेषु एप्रिल् षष्ठदिनाङ्के मतदानं सम्पत्स्यते। कोविड् सुरक्षानियमान् परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्तीति मुख्यनिर्वाचनाधिकारी सुनिल् अरोरः वार्ताहरसम्मेलने उक्तवान्।
Thursday, February 25, 2021
मार्च् प्रथमदिनाङ्कतः ६० वयस्केभ्यः वाक्सिनः निशुलकं दास्यते।
नवदिल्ली> मार्च् प्रथमदिनाङ्कतः ६० वयस्केभ्यः तथा रोगबाधितेभ्यः ४५ वयस्केभ्यः च वाक्सिनः निशुलकं दास्यते इति भारत सर्वकारेण ज्ञापितम्।१०,००० सर्वकारकेन्द्रेषु २०,००० निजीय केन्द्रेषु च वाक्सिनः निशुल्कं दास्यते इति केन्द्रमन्त्रिणा प्रकाश जावडेकरेण उक्तम्। निजीय आतुरालयात् वाक्सिनं स्वीकरोति चेत् शुल्कं दातव्यंम् अस्ति।
Sunday, February 21, 2021
सप्तमासानां यत्रा, ३० कोटि मैल् दूरम्। सिवियरन्स् कुजग्रहं प्राप्तम्।
Friday, February 19, 2021
विद्युत् नास्ति, जलं नास्ति, शीतेन घनीभूतः टेक्सास् देशः।
वाषिङ्टण्> यु एस् राष्ट्राणां दक्षिणपूर्व राज्यानि अतिशैत्येन कम्पन्ते। जनानां जीवनं दुस्सहमभवत्। हिमपातेन अतिन्यून-तापमानेन च टेक्सास् प्रदेशस्य स्थितिः अतिकष्टेन अनुवर्तते। सर्वकारेण पूर्वसूचना प्रसारिता अस्ति। २.७ दशलक्षं गृहेषु वैद्युतिः स्थगिता अस्ति। गृहेषु तापवर्धनाय सहायकसुविधायाः प्रवर्तनाय वैद्युतिः अनिवार्या। जलवितरणनालिका भागिकतया स्थगिता वर्तते। २१ जनाः मृताः इति आवेद्यते।
Tuesday, February 16, 2021
अनर्हेभ्यः दरिद्राणां कार्डपत्रम्। प्रक्रमाः स्वीकरिष्यन्ते इति कर्णाटकस्य सर्वकारः।
बङ्गलूरु> पञ्च एकर् विस्तृतं भूमेः स्वामिनः द्विचक्रिका स्वामिनः च दरिद्रेभ्यः उद्दिष्टं कार्डपत्रं प्रत्यर्पणीयम् इति कर्णाटक-सर्वकारेण आदिष्टाः। मार्च् ३१ दिनाङ्कतः पूर्वम् आदेशं पालनीयम्। नो चेत् दण्ड प्रक्रमाः स्वीकरिष्यन्ते इति सर्वकारेण स्पष्टीकृतम्। सर्वजनिकवितरण-विभागस्य मन्त्रिणा उमेश खाट्टी वार्तामेलने वार्तामिमां प्रकाशयत् । १.२० लक्षं वार्षिकायः यस्मै अस्ति सोऽपि कार्डपत्रम् प्रत्यर्पणीयम्।प्ररोधौषधप्रयोगः त्वरितवेगन कृतः केन्द्रसर्वकारः। ८५ लक्षं जनाः औषधप्रयोगं स्वीकृतवन्तः।
नवदेहली> कोरोण प्ररोधौषधप्रयोगस्य तृतीयश्रेणी आगमिमासे भविष्यति। ५० वर्षा देशीयनाम् अपि अस्मिन् सन्दर्भे औषधप्रयोगं भविष्यति इति स्वास्थ्यमन्त्रालयेन उक्तम्। वाक्सिन् प्रयोगः त्वरितवेगन कृतः केन्द्रसर्वकारेण। इतःपर्यन्तं ८५१६३८५ जनाः वाक्सिन् स्वीकृतवन्तः।
Monday, February 15, 2021
जापाने भूचलनम् १५० जनाः क्षताः।
फुकुषिम> जापानस्य उत्तरपूर्व प्रदेशेषु आपन्ने भूचलने १५० जनाः क्षताः। भूचलनस्य शक्तिःरिक्टर् मापिन्यां ७.३ इति अङ्किता भवति इति स्पुट्निकेन आवेदितम्। राष्ट्र राजधान्यां टोक्योमध्ये अपि प्रकम्पः अनुभूतः। भुचलन कारणेन विद्युत्रेल्- विद्युत्सेवाः च स्तगिताः आसन्। आगमि सप्ताहेषु अनुबन्ध चलनानि स्युः इति पूर्व सूचना प्रदत्ता अस्ति।Sunday, February 14, 2021
विश्वस्वास्थ्य सङ्घटनाय कोविडस्य प्राथमिकविवरणानि प्रदातुं चीनेन वैमुख्यं प्रकाशितम्।
Saturday, February 13, 2021
गूगिल् माप् इत्यस्य स्थानं इतःपरं माप् मै इन्टिया संवहति।
नवदेहली>आत्मनिर्भर-योजनया सम्पुष्टम् ऐ एस् आर् ओ संस्थया निर्मितं भारतस्य 'माप् मै इन्ट्य' समागच्छति। गूगिल् माप् इत्यस्य स्थाने स्वराष्ट्रनिर्मितम् अनुप्रयोगः भवतु इति राष्ट्रप्रेमिणां चिरकालाभिलाषः भवति। विलम्बं विना अभिलाषकलिका विकासं यास्यति इति वार्ता सर्वेषां मोदाय भवति।
Friday, February 12, 2021
'केन्ट्' कोरोणा वैराणुव्यापनं विश्वमखिलं स्यात्। वाक्सिन् निष्फलं भविष्यति इति वैज्ञानिकाः।
लण्टन्> चीनराष्ट्रे पुनरपि कोरोणा वैराणुभीषया द्वे नगरे पिधानं कृतम्। केन्ट् मध्ये प्रत्यभिज्ञातः नूतनः कोरोणवैराणुः आविश्वं व्याप्स्यते इति वैज्ञानिकाः अभिप्रेन्ति। इदानीं दीयमानेन वाक्सिनेन लब्धं संरक्षणं दुर्बलं कर्तुं नूतनः वैराणुः सज्जः स्यात् इति यु के राष्ट्रस्य जनितक-निरीक्षणायोगस्य अधिपः षारोण् पीकोक् इत्याख्येन आवेद्यते। कोरोणा वैराणुना इतःपर्यन्तं २.३५ दशलक्षं जनाः मारिताः। कोटिशानां साधारणजनानां जीवनम् तिरश्चीनमभवन्। नूतनः वैराणुः औषधप्रतिरोधान् प्रतिकूलरीत्या बाधिष्यते इति च षारोण् पीकोक् अवदत्। ब्रिट्टणे व्याप्तः नूतनवैराणुः शक्ता भवति। विश्वहननाय क्षमतायुक्तः भवति एषः इत्यपि तेन उक्तम्।Thursday, February 11, 2021
शान्तसमुद्रे भूचलनम्। ओस्ट्रेलिया न्युसिलान्ट् राष्ट्रयोः तीरयोः 'सुनामि' सूचना।
दक्षिणपूर्व शान्तसमुद्रे अतिशक्तं भूचलनम् अभवत्। रिक्टर् मापिन्यां ७.७ इति अङ्गितेन भूचलनेन ओस्ट्रेलिया न्युसिलान्ट् फिजि राष्ट्राणां तीर प्रदेशाः 'सुनामि' भीत्यां वर्तन्ते। अमेरिक्कस्य 'सुनामि-पूर्वसूचनाकेन्द्रः' तथा ओस्ट्रेलियस्य वातावरणनिरीक्षण-विभागेन च सुनामि पूर्वसूचना प्रदत्ता अस्ति। अति शक्ता समुद्रतरङ्गः स्यात् इत्यनेन जनाः सुरक्षितस्थानं प्रेषयन्तः सन्ति।Wednesday, February 10, 2021
यु ए इ राष्ट्रस्य कुजयोजना सर्थका अभवत्। होप् प्रोब् भ्रमणपथं प्राप्तम्।
दुबाय्> अरब् देशस्य प्रथम कुजयोजना विजयपथं प्राप्ता। यू ए ई राष्ट्रेण विक्षिप्तं होप् प्रोब् बाह्याकाश पेटकं कुजस्य भ्रमणपथं प्राप्तम्। अरब् प्रदेशमखिलम् उत्सवसमानम् अन्तरिक्षं वर्तते। कुजस्य जल-धूली सान्निध्यम् अधिकृत्य आवेक्षणमेव होप् प्रोब् पेटकेन क्रियते। २१२० संवत्सरे कुजग्रहे मनुष्वाससंस्थापनम् भवति लक्ष्यम्। गतसंवत्सरे जुलाई मासे होप् प्रोब् बाह्याकाशवाहनं भ्रमणपथं प्राप्तम् आसीत्।Monday, February 8, 2021
भारत-नेप्पालसंबन्धमार्गः उद्घाटितः।
काठ्मण्डु> भारतसीमां नेप्पालराष्ट्रस्य विविधाशान् प्रदेशान् सम्बध्यमानः नूतनः मार्गः उभाभ्यां राष्ट्राभ्यां संयुक्ततया उद्घाटितः। भारतसीमायां लक्ष्मीपुरस्थात् बलारातः नेप्पालस्य सरलाहिजनपदस्थं गथय्यां सम्बध्नाति अयं मार्गः।
१०८ कि.मी परिमितदूरयुक्तस्य अस्य मार्गस्य निर्माणाय भारतेन ४.४४कोटि रूप्यकाणि दत्तानि। नूतना वीथी उभयोरपि राष्ट्रयोः जनानां कृते नितरां प्रयोजकीभविष्यतीति भारतीयनयतन्त्रकार्यालयेन प्रस्तुतम्।
उत्तरघण्डे हिमश्रृङ्गः अधःपतितः। १५० जनाः अप्रत्यक्षाः। अलकनन्दासेतुः भग्नः।
Sunday, February 7, 2021
पञ्चाशद्वयस्कातीतेभ्यः कोविड्वाक्सिनं मार्च् मासे।
नवदिल्ली> भारते पञ्चाशदतीत वयस्केभ्यः आगामिमासादारभ्य कोविड्वाक्सिनवितरणम् आरप्स्यते इति स्वास्थ्यमन्त्रिणा हर्षवर्धनेन निगदितम्।
गतदिनं यावत् ५३ लक्षं जनेषु वाक्सिनीकरणं कृतम्। स्वास्थ्यप्रवर्तकानाम् इतरेषां सेनामुखे वर्तमानानां च कृते एव आभारतं प्रथमद्वितीयसोपाने वाक्सिनीकरणं प्रदत्तम्। तृतीयसोपानतया एव ५० अतीतानां कृते वाक्सिनीकरणम्।
१११ सामाजिकविद्यालयाः अपि श्रेष्ठाः अभवन्।
अनन्तपुरी> केरले १११ सामाजिकविद्यालयाः अपि गतदिने श्रेष्ठताकेन्द्राणि अभवन्। सामाजिक शिक्षणविभागस्य भौतिकसुविधाविकासाभियोजनायाः अंशतया 'किफ्बि'नामकधननिधिमुपयुज्य निर्मितानां १११ विद्यालयानां समुद्घाटनं मुख्यमन्त्रिणा पिणरायि विजयेन दृश्यश्रव्यमाध्यमद्वारा [Video Conference] कृतम्।
राज्यस्य विप्रकृष्टग्रामेषु वर्तमानेभ्यः छात्रेभ्यः अपि अन्ताराष्ट्रस्तरीया श्रेष्ठा शैक्षिकसुविधा लभते इत्येव अस्याः अभियोजनायाः लक्ष्य इति मुख्यमन्त्रिणा उक्तम्।
शिक्षामन्त्री प्रोफ. सि रवीन्द्रनाथस्य आद्ध्यक्षे आयोजिते मेलने वित्तमन्त्री डो. टि एम् तोमस् ऐसकः मुख्यभाषणमकरोत्। प्रतिविद्यालयेषु अपि प्रादेशिकस्तरे उद्घाटनसभाः आयोजिताश्च।
Saturday, February 6, 2021
नूतनं संयुक्तराष्ट्राध्यक्षं चेतुं प्रक्रमः समारब्धः।
युणैट्टड् नेषन्स्> संयुक्तराष्ट्रसभायाः नूतनाध्यक्षपदे वनिता भवतु इति विचिन्त्य प्रक्रमाः समारब्धाः। इदानीन्तनाध्यक्षः अन्टोणियो गुट्टरस् स्थानाशी भूत्वा पुनरपि स्पर्धिष्यते इति उक्तवान्। पोर्चुगीस् राष्ट्रस्य प्राक्तनः प्रधानमन्त्री भवति एषः। यू एन् सर्वजनिकसभायां सुरक्षासभायां च तस्मै सभाङ्गानां सहयोगः अस्ति। यू एन् अङ्गाः यू एस् रष्य चीन फ्रान्स् राष्ट्राणां सहयोगः तस्मै अस्ति इति आवेद्यते। अस्मिन् वारे अध्यक्षस्थाने वनिताभवतु इति आवश्यं पत्रद्वारा होण्डूरासस्य राजदूतः संयुक्तराष्ट्रसभां न्यवेदयत्।Thursday, February 4, 2021
वाहन-पञ्जीकरणाय अनुज्ञापत्राय च आधार पत्रम् अनिवार्यम्।
कोच्ची> वाहनानां पञ्जीकरणाय यान-चालकानुज्ञापत्राय च आधार पत्रम् अनिवार्य-प्रमाणपत्रत्वेन अङ्गीकरिष्यति। ओण् लैन् सेवा सुरक्षितरीत्या प्रवर्तयिंतुम् उद्दिश्य केन्द्रसर्वेकारेण नियमः नवीकृतः। विनामेषु (Binami) वाहन-पञ्जीकरणं व्याज-प्रमाणपत्रानुपयुज्य वाहन-चालकानुज्ञापत्र-प्राप्तिः च रोद्धुमेव अयं प्रक्रमः। अस्मिन् मासे एव विज्ञापनं बहिर्गमिष्यति इति आवेद्यते।
Monday, February 1, 2021
म्यान्मर् देशे सैनिकाधिपत्यंम्
सूची बन्धने।
रङ्कूण्> म्यान्मर् देशे पुनरपि शासने सैनिकाधिनिवेशः अभवत्। शासनदलः नाषणल् लीग् फोर् डेमोक्रसि ( N L D ) इत्यस्य नेतृणी आङ् सान् सूचि राष्ट्रपति विन् मिन्टः अन्ये नेतारः च बन्धिताः। सैनिक नेतारः राष्ट्रे त्वरितप्रक्रमकालः ख्यापितवन्तः। अद्य उषसि एव नेतारः बन्धिताः अभवन्। नूतनतया निर्वचने विजयं प्राप्तवताः श्वः शासनं स्वीकर्तुं सज्जाः असन्। तदानीमेव आसीत् ईशृशी घटना। राष्ट्रस्य टी वी, रेडियो प्रवर्तनानि स्तगायितम्। प्रधाननगराणि सर्वाणि सैनिकाधीनम् अभवन्। राजधान्यां नैपितो इत्यत्र दूरभाषा-अन्तर्जालादि सेवाः निराकृताः। अतः तस्मिन् किं प्रचलति इति विस्तरेणज्ञातुं वार्ताहराः प्रयत्नं कुर्वन्तः सन्ति।
भारतम् इत्युक्ते राष्ट्रात् अपि भूप्रदेशात् अपि विशालं भवति - प्रधानमत्री नरेन्द्रमोदी।
नवदिल्ली> भारतम् इत्युक्ते राष्ट्रात् अपि भूप्रदेशात् अपि अतिविशालं भवति इतिप्रधानमत्री नरेन्द्रमोदी अवदत्। भारतम् अधिकृत्य ये जानन्ति तेभ्यः सा सत्ता अवगम्यते। स्वामिविवेकानन्देन समारब्धं #'प्रबुद्धभारत' इति पत्रिकायाः १२५ तम संवत्सरीय समारोहे भाषमाणः आसीत् सः। भारतस्य आत्मा का इति उद्बोधयितुम् उद्दिश्य पत्रिकायैः प्रबुद्धभारत इति तेन नामकरणं कृतम्। उद्बुद्धभारतस्य सर्जनमेव विवेकानन्देन अभिलषितम्। येभिः भारतं प्रत्यभिज्ञातम् तेभ्यः भारतम् राष्ट्रादपि भूप्रदेशादपि विशालं इति सुव्यक्तं भविष्ति, नरेन्द्रमोदिना उक्तम्।Sunday, January 31, 2021
वाहननियमलङ्घनं - फेब्रुवरि १ आरभ्य कर्कशपरिशोधना भविष्यति।
अनन्तपुरी>राष्ट्रियवीथीसुरक्षामासाचरणस्य अंशतया केरले यन्त्रवाहनविभागेन आरक्षकसेनया च वाहनपरिशोधना कर्कशा विधत्ता। फेब्रुवरि प्रथमदिनादारभ्य ६ दिनाङ्कपर्यन्तं शिरस्त्राण-आसनपरिवेष्ट्रस्य च परिशोधनायाः प्राधान्यं भविष्यति। १० - १३ दिनाङ्कपर्यन्तम् अतिशीघ्रगतियुक्तानां वाहनानि विरुध्य पदक्षेपाः करिष्यन्ते। ७- १७ दिनाङ्केषु मदिरां पीत्वा वाहनचालनं, चालनसमये दूरवाणीविनियोगः, सूचनालङ्घनम्, अनधिकृतस्थगनम् इत्यादिषु प्रकरणेषु पदक्षेपाः स्वीकरिष्यन्ते।














