आनमला छायाप्राचिका - केरलेषु सूचीप्राचिकायाः नूतनप्रभेदः संदृष्टः।
OUR YouTube Channel 1. SampratiVartah |
marquee
Wednesday, July 27, 2022
Tuesday, July 26, 2022
रोगः वर्धते । वानरज्वरः आविश्वसांक्रमिकव्याधिः इति ख्यापयित्वा विश्वस्वास्थ्यसंस्था।
जनीव> वानरज्वरः आविश्वसांक्रमिकव्याधिः इति विश्वस्वास्थ्यसंस्थया ख्यापितः। व्याधिरयं सर्वराष्ट्रेषु अपि बाधिते सन्दर्भे एव प्रक्रमोऽयम्। विश्वस्वास्थ्यसंस्थया आयोजिते आपत्कालीनमेलने एव निर्णयोऽयम् स्वीकृतः। वानरज्वरः आपत्कालीन - आविश्व - सामान्यजनस्वास्थ्य - आशङ्का भवति इति विश्वस्वास्थ्यसंस्थया प्रकाशिते वार्ताटिप्पण्यौ विशदयति ।
कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः विषादः च व्याप्यते।
कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः मानसिकरोगसमस्याः च वर्धन्ते इति भिषग्वराः। कोविड्रोगः बहुवारं बाधितेषु मानसिकसम्मर्दः, स्मृतिभ्रंशः, विषादः च वर्धन्ते इति भिषावराः सूचयन्ति। कोविड्रोग: रक्तनालिकायां स्वाभाविकरक्तप्रवाहस्य विघ्नकारणं भवति। बहुवारं कोविड्रोगः बाधते चेत् तत् मस्तिष्के स्वाभाविकरक्ततप्रवाहान् बाधते। न्यूनरक्तप्रवाहस्य मुख्यलक्षणानि भवन्ति स्मृतिभ्रंशः विषादः, अत्युत्कण्ठा, निद्राभङ्गः, उन्मेषनाशः च।
राष्ट्रपतिः द्रौपदी मुर्मू महाभागायाः जीवितचरित्रं विरचितवती त्रयोदशवयस्का विख्याता अभवत्।
त्रयोदशवयस्का भाविका महेश्वरी भारतस्य पञ्चदशतमराष्ट्रपतेः द्रौपदी मुर्मू महा भागायाः जीविनकथां विरच्य अतितोषम् अनुभवन्ती विराजते। सूरट् स्वदेशीया भाविका अष्टमकक्ष्यायाः छात्रा भवति। प्रचोदकप्रभाषिका, ग्रन्थद्वयस्य रचयिता इत्येवं रूपेण निपुणेयं उतरभारतस्य सांस्कृतिकमण्डलेषु प्रसिद्धा भवति।
Sunday, July 24, 2022
चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश भारतीयकर्मकरेषु सप्तकर्मकराः भारतीयव्योमसेनया संदृष्टः।
शिक्षकनियुक्तौ भ्रष्टाचारः - वंगस्य मन्त्री मित्रं च निगृहीतौ।
कोल्कोत्ता> पश्चिमवंगराज्ये विद्यालयेषु शिक्षकाणां नियुक्तौ आर्थिकभ्रष्टाचारः कृतः इत्यपराधमालक्ष्य राज्यस्य उद्योगमन्त्री पार्थ चाटर्जी तस्य मित्रम् अर्पिता मुखर्जी नामिका अभिनेत्री च प्रवर्तननिदेशालयेन [ई डि] निगृहीतौ। अर्पिता मुखर्जेः गृहात् २१. २ कोटि रूप्यकाणि, ५४ लक्षरूप्यकाणां विदेशमुद्राः, ७९ लक्षंरूप्यकमूल्ययुक्तानि सुवर्णाभरणानि च निगृहीतानि।
यदा पार्थ चाटर्जी शिक्षामन्त्री आसीत् तदा विद्यालयेषु अध्यापकनियुक्तये उद्योगार्थिजनेभ्यः महद्रूप्यकाणि उत्कोचरूपेण स्वीकृतानि इत्यारोपः। अर्पितायाः गृहे आसीत् तानि सम्भृतानीति ई डि संस्थया प्रमाणीकृतम्।
Saturday, July 23, 2022
राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। कैरल्यै ८ पुरस्काराः।
नवदिल्ली> भारतस्य २०२० तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। तमिलभाषातः 'सूररै पोट्र्' नामकं चित्रं श्रेष्ठतमं चलच्चित्रमिति पुरस्काराय चितः। तस्मिन्नेव चलच्चित्रे अतुल्यमभिनयं प्रदर्शितवन्तौ नायिकानायकौ अपर्णा बालमुरलिः, सूर्यः च यथाक्रमं श्रेष्ठतमौ नटीनटौ अभवताम्। अजय देवगण् नामकः बोलिवुड् चलच्चित्रनटः अपि श्रेष्ठतमनटस्य पुरस्काराय सहभाजी जातः।
कैरल्यां बहवः प्रतिभाधनाः चलच्चित्रकलाकाराः अस्मिन् पुरस्कारनिर्णये बहुमानिताः। 'अय्यप्पनुं कोशियुम्' इति चित्रस्य निदेशकः सच्ची [सच्चिदानन्दः] अस्ति श्रेष्ठतमः निदेशः। एषः पुरस्कारः तस्मै मरणानन्तर बहुमतिरभवत्। एतस्मिन्नेव चलच्चित्रे गानानि गीतवती नञ्चियम्मा नामिका वनवासिगायिका एव श्रेष्ठतमा गायिका। कैरल्याः प्रतिभाधनः अभिनेता बिजुमेनोनः अय्यप्पनुं कोशियुम्' इति चित्रेण श्रेष्ठतमः सहाभिनेता जातः। वाणिज्यचलच्चित्रक्षेत्रे ८ पुरस्काराः मलयालभाषायै सम्मानिताः।
Friday, July 22, 2022
बालिका-बालक विद्यालयाः न आवश्यकाः इति बालधिकारसमितिः।
तिरुवनन्तपुरम्> राज्ये बालिकाविद्यालयाः बालकविद्यालयाः च स्थगयितुं बालाधिकारसमित्या निर्देशो दत्तः। विद्यालयेषु पुंस्त्रीभेदौ न आवश्यकौ। भेदोऽयं लिङ्गनीतिनिषेधः भवति इत्येव बालाधिकारसमित्याः निरीक्षणम्। अञ्चल् स्वदेशीयेन डो. ऐसक् पोल् नामकेन प्रदत्तं याचनापत्रं पुरस्कृत्यैव बालाधिकारसमित्या चरित्रप्रधाननिर्देशो दत्तः ।
द्रौपदी मुर्मू सामान्यजनविभागस्य प्रतीक्षा। प्रधानमन्त्री नरेन्द्रमोदी साक्षात् आगत्य अभिनन्दनानि आवेदितवान् ।
नवदिल्ली> प्रधानमन्त्री नरेन्द्रमोदी भारतस्य १५ तम राष्ट्रपतिपदे नियुक्तां द्रौपदि मुर्मुम् अभिनन्दनानि आशंसाः च अर्पितवान्। प्रधानमन्त्री नरेन्द्रमोदी तस्याः वसतिं स्वयं संदृर्श्य अभिनन्दनानि आवेदितवान्। सामान्यजनविभागस्य प्रतीक्षा भवति मुर्मू, पुरतः स्थित्वा राष्ट्रं नीत्वा शक्तियुक्तं करिष्यति इति प्रधानमन्त्रिणा प्रोक्तम्।
Thursday, July 21, 2022
ओस्ट्रेलियायां कोविड्रोगः वर्धते। 'गृहतः उद्योगनिर्वहणं पुनरानेतुं निर्देशो दत्तः।
कूर्माय सेवाफलं विभज्य दत्तवान् वनमानुषः। चलनचित्रखण्डः सामूहिकमाध्यमे त्वरितप्रसरमभवत्।
जम्मु मध्ये मेघविस्फोटनं - विद्यालयं समेत्य १३ भवनानि प्रवाहितानि।
भादैर्वा [जम्मू]> जम्मु मध्ये दोड जनपदे मेघविस्फोटनानन्तरं सञ्जाते वृष्टिजलप्रवाहे एकं विद्यालयं समेत्य १३ भवनानि प्रवाहितानि। उपविंशति भवनानि भागिकतया विशीर्णानि। प्राणविनष्टाः न प्रस्तुताः।
दोडा जनपदस्थे टन्तप्रदेशे आसीदयं प्रकृतिकोपः दुरापन्नः। अल्लाम इक्बाल् स्मारक विद्यालयः, एकं वासगृहं, त्रयः आपणाः, अष्टसंख्याकाः इतरसंस्थाश्च प्रवाहिताः इति अधिकारिभिः निगदितम्।
विश्वस्मिन् अष्टमम् अद्भुतम्। मसायिमारेषु पशूनां महादेशाटनं समारब्धम्।
Wednesday, July 20, 2022
रेनिन् विक्रम सिंगे श्रीलङ्कायाः राट्रपतिपदे नियुक्तः। प्रतिषेधं प्रकटितानां जनानाम् उपरि कठिनप्रक्रमाः भविष्यन्ति।
परिस्थितिसमस्याः समुद्रान् तथा तीरदेशवासिनः च अधिकतया प्रबाधन्ते।
अनन्तपुरी> परिस्थितिसमस्यया समुद्राः तथा तीरदेशजनाः च अधिकतया दुरितमनुभवन्ति इति परिस्थितिसंरक्षणसमित्याः अखिलभारतसंयोजकेन गोपाल् जि आर्येण प्रोक्तम्। मत्स्यबन्धनकर्मकरान् जीवजालान् च संरक्षितुं सर्वे पुरतः आगन्तव्याः इति तेन निगदितम्। समुद्रतीरान् पलास्तिकात् मुक्तं कर्तुम् आविश्वं प्रचाल्यमानस्य समुद्रतीरशुचीकरणयज्ञस्य आयोजकमितिरूपीकरणम् उद्घाटयित्वा भाषमाणः आसीत् सः।
वर्षत्रयाभ्यन्तरे भारतीयनागरिकत्वं परित्यक्तानां संख्या ३.९२ लक्षम्। अर्धाधिके अमेरिक्का राष्ट्रस्य नागरिकत्वं स्वीकृताः।
नवदिल्ली> विगते संवत्सरत्रयाभ्यन्तरे ३.५२ लक्षं भारतीयाः तेषां पौरत्वं परित्यक्ताः इति केन्द्रसर्वकारेण विधानसभायाम् आवेदितम्। तेषु भारतीयेषु सुस्थिरवासं कृतेषु १०३ राष्ट्रेषु अधिके जनाः अमेरिक्कादेशम् अचिन्वन्। २०२१ संवत्सरे १.६३ लक्षं जनाः भारतीयनागरिकत्वं परित्यक्ताः इति केन्द्र- आभ्यन्तर-मन्त्रालयेन प्रकाशिते प्रमाणे सूचयति। तस्मिन् वर्षे भारतीय नागरिकत्वं परित्यक्तेषु १.६३ लक्षं जनेषु ७८०० जनाः अमेरिक्काराष्ट्रस्य नागरिकत्वमेव अचिन्वन्।
संस्कृताध्येतृभ्यः संगणके ई-संसाधने च दक्षता अनिवार्या।
संस्कृताध्येतारः संगणके ई-संसाधने च दक्षा भवन्तु, प्राचीनतमज्ञान-विज्ञानादीनाम् अद्यतनज्ञानविज्ञानैः सह सामञ्जस्यं स्यात्, संस्कृतसंवर्धने ई-संसाधनानां सम्यक्तया प्रयोगकर्तारः अधिकाधिकजनाः स्युः तदर्थम् उत्तरप्रदेशसंस्कृतसंस्थानेन निःशुल्कं संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः कृतः अस्ति। राट्रियशिक्षानीति: २०२० इत्याधारिते नवीनपाठ्यक्रमेष्वपि संगणकेन सह ई-संसाधनानां ज्ञानम् अपेक्षितमस्ति। अतः संस्कृतविकासाय संगणकस्य, ई-संसाधनानाञ्चोपयोगिता- विषयिणी सप्तदिवसीया कार्यशाला जुलै मासस्य १४ दिनाङ्कतः प्रवर्तमाना वर्तते। प्रथमदिने संस्थानस्य माननीया अध्यक्षमहोदयाः आचार्या वाचस्पतिमिश्रमहोदयाः स्वविशिष्टसम्बोधनेन संस्कृतज्ञान् आहूतवन्तः। एकस्मिन् हस्ते संस्कृतम् अपरे संगणकं स्थाप्य स्वकीयबौद्धिकी यात्रा करणीया भविष्यति। अतः एतादृशी कार्यशाला अग्रेऽपि आवश्यकी भविष्यति।Tuesday, July 19, 2022
वानरवसूरिः> विदेशात् आगताः सर्वे स्वास्थ्यपरिशोधनाविधेयाः भवितव्याः इति केन्द्रसर्वकारः।
नवदिल्ली> राष्ट्रे द्वितीयं वानरवसूरिप्रकरणं केरलेऽपि प्रतिवेदिते सन्दर्भे पूर्वोपायप्रक्रमान् प्रबलं कर्तुं केन्द्रसर्वकारेण निर्देशो दत्तः। सर्वेषु विमानपत्तनेषु नौकाश्रयेषु च यात्रिकान् निर्बन्धितारोग्यपरिशोधनाविधेयं कर्तुं केन्द्रसर्वकारेण निर्देशो दत्तः। विमानपत्तन - नौकाश्रयविभागस्य कर्मकरैः साकं स्वास्थ्यविभागनिर्दैशकैः आयोजिते मेलने एव निर्देशाः दत्ताः।
सिङ्गप्पुरं ओप्पण् पिच्छकन्दुकस्पर्धा - पि वि सिन्धू विजिता।
सिङ्गप्पुरं> सिङ्गप्पुरं ओप्पण् सूपर् ५०० नामकपिच्छकन्दुकक्रीडापरम्परायाः अन्तिमे चक्रे भारतस्य पि वि सिन्धू विजयकिरीटं प्राप्तवती। अन्तिमक्रीडायां 'एष्यन् चाम्प्यन् षिप्' सुवर्णपदकप्राप्तां चीनस्य वाङ् षी नामिकां पराजितवती।
अस्मिन् क्रीडाकाले सिन्धुवर्यायाः तृतीयं किरीटप्राप्तिः एषः। सय्यिद् मोदी अन्ताराष्ट्रियक्रीडायां तथा स्विस् ओपण् क्रीडायामपि सिन्धुरेव श्रेष्ठत्वं प्राप्तवती।
Monday, July 18, 2022
राजनैतिक -आर्थिकसमस्यादिभिः पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति।
राजनैतिक - आर्थिकसमस्यादिभिः पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति। तदर्थं केन्द्रसर्वकारेण मङ्गलवासरे सर्वदलयोगम् आयोजितमस्ति। तमिल्नाडुदेशात् ए ऐ ए डि एम् के, डि एम् के इत्येतयोः राजनैतिकदलयोः अभ्यर्थनानुसारमेव अयं निश्चयः। वर्षाकालसम्मेलनम् आधारीकृत्य संसदसभायाम् आहूते सर्वदलयोगे भारतं समस्यापरिहाराय प्रयत्नः करणीयः इति तमिलनाडुराज्यस्थैः दलैः अभ्यर्थिम् आसीत्।
बुन्देलखण्ड अतिशीघ्रवीथिः उद्घाटितः।
जलोन् [उत्तरप्रदेशः]> मध्यप्रदेशस्थे चित्रकूटात् दिल्लीं प्राप्यमाणः बुन्देलखण्ड अतिशीघ्रवीथिः प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितः। २९६ कि मी दूरपरिमितेन अनेन मार्गेण चित्रकूट - दिल्ली यात्रासमयाय त्रिचतस्रहोराणां अपचितिः भविष्यति। सप्तसु जनपदेषु व्यावर्तमानस्यास्य नूतनमार्गस्य निर्माणाय १४,८५० कोटिरूप्यकाणां व्ययः अभवत्।
Sunday, July 17, 2022
अग्निपथयोजनायाः कृते ७.५ लक्षं युवानः अवेदनपत्रं प्रेषितवन्तः।



.webp)

%20(1).webp)

.webp)

.webp)

