OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, August 20, 2025

 यात्राशुल्कः सर्वोच्चन्यायालयेनापि निरस्तः। 

यातायाते सुगमे यात्राशुल्कः पुनस्थापनीयः।

राष्ट्रियमार्गे ५४४ मध्ये जातः यानसम्मर्दः। 

नवदिल्ली> केरले राष्ट्रियमार्गः - ५४४ मध्ये तृश्शिवपेरूर् जनपदस्थे पालियेक्करा स्थाने वर्तमाने यात्रशुल्कसंग्रहणकेन्द्रे एकमासं यावत् शुल्कसंग्रहणं निरस्यमिति उच्चन्यायालयस्य आदेशः सर्वोच्चन्यायालयेनापि साधूकृतः। मासान् यावत् राजमार्गे तत्र तत्र पुनर्निर्माणप्रवर्तनैः यात्रक्लेशः कठिनतरः आसीत्। इदानीमपि बहुत्र मार्गस्य शोच्यावस्थया यानस्थगनं होराः अनुवर्तते। तस्य आधारे सामान्यजनहितार्थं केरलस्य उच्चन्यायालयेन यात्राशुल्कसंग्रहणं निरुद्धम्। 

  एनमादेशं विरुध्य राष्ट्रियमार्गाधिकारिणा [National High way Authority of India - NHAI] निर्माणसंस्थया च  समर्पिता पुनरालोचनाप्रार्थना गतदिने सर्वोच्चन्यायालयेन निरस्ता। नीतिपीठेन स्पष्टीकृतं यत्  यदा यातायातः सुगमः क्लेशरहितः च भविष्यति तदा यात्राशुल्काय अर्हता भविष्यन्ति।

 'जि एस् टि' परिष्कारः आर्थिकाभिवृद्धये कारणं भविष्यति। 

मुम्बई> प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वतन्त्रतादिने उद्घोषितः पण्यसेवाकरपरिष्कारः राष्ट्रस्य आर्थिकाभिवृद्धये हेतुः भविष्यतीति गवेषकाः। करपरिष्कारः २.४ कोटिरूप्यकाणाम् अधिकोपभोगं विधास्यतीति प्रतीक्षते। 

  दीपावलिमनुबन्ध्य करपरिष्करणं प्रबलं भविष्यतीति प्रधानमन्त्रिणा स्पष्टीकृतमासीत्। राष्ट्रे उत्सवकालः आरभ्यते इत्यतः उपभोगः वर्धिष्यते।

 शुभांशुः मोदिनं मिलितवान्। 

चर्चायां गगनयानयोजना अपि। 

नवदिल्ली>  अन्ताराष्ट्रबहिराकाशनिलये स्वदौत्यं पूर्तीकृत्य भारतं प्रत्यागतवान् शुभांशु शुक्लः प्रधानमन्त्रिणं नरेन्द्रमोदिनं मिलितवान्। प्रधानमन्त्री शुभांशुं समालिंग्य स्वीकृतवान्। 

  गगनयानदौत्यमधिकृत्य उभावपि चर्चितवन्तौ इति परं मोदिवर्यः 'एक्स्' समाजमाध्यमे लिखितवान्।

Tuesday, August 19, 2025

  ऐ.ऐ.टी. रुड़की संस्थायां द्वादश-दिवसीय-शिक्षक-प्रशिक्षण-कार्यशालायाः शुभारम्भः।

भारतीयप्रौद्योगिकीसंस्थानस्य (IIT) रुड़की-स्थितस्य व्यवस्थापन-अध्ययन-विभागेन (DOMS), संस्कृतक्लब् रुड़की संस्कृतभारती-जनपद-रुड़की- संस्थभिः च संयुक्तरूपेण सोमवासरे द्विदश-दिवसीया शिक्षक-प्रशिक्षण-कार्यशाला आरब्धा। अस्याः कार्यशालायाः विषयः अस्ति – “राष्ट्रीय-पुनर्जागरणाय एकः सार्थकः प्रयासः”।


 ऐ ऐ टी-रुड़की-निदेशकः डॉ॰ कमलकिशोरः पन्तः उत्तराखण्डस्य संस्कृत-शिक्षा-निदेशकः डॉ॰ आनन्दभारद्वाजः अन्ये च  संरक्षक-रूपेण च अस्मिन् प्रशिक्षण-कार्यक्रमे वर्तन्ते।

 गुजरात् महाराष्ट्र हरियानराज्येषु अतिवृष्टिः।

मुम्बई> महाराष्ट्रं, गुजरात्, हरियानम् इत्यादिषु पश्चिमोत्तरराज्येषु अतिवृष्टिरनुवर्तते। मुम्बई, पूणै प्रान्तेषु रक्तजाग्रत्ता उद्घोषिता। नगरद्वयमपि जलनिमग्नं वर्तते। यातायातसुविधा बहुक्लेशपूर्णा अस्ति। रेल् यानसेवा स्थगिता। 

 गुजरातराज्ये अपि अतिवृष्टिदुष्प्रभावः कठिनतरः। सूरट्, कच् जाम्नगरप्रदेशेषु  जलोपप्लवः अनुभूयते।

 धर्मस्थलः - मृतशरीरिणां कृते अन्वेषणम् अल्पकालिकेन समापितम्। 

आदर्शाणां परिणामानन्तरं वस्तुतान्वेषणमिति गृहमन्त्री।

बङ्गलुरु> धर्मस्थले मृतदेहावशिष्टानि अधिगन्तुं निश्चितस्थानानि खननं कृत्वा अन्वेषणम् अल्पकालिकेन समापितम्। अद्यावधि अधिगतानां शरीरावशिष्टानां रासपरिणामं लब्ध्वा अन्वेषणं पुनरारप्स्यते इति राज्यगृहमन्त्रिणा जि परमेश्वरेण निगदितम्। अनन्तरान्वेषणं कथं कार्यमिति सविशेषान्वेषणसंघेन [SIT] निर्णेतव्यमिति तेन प्रोक्तम्। 

 लब्धानां मृतशरीरावशिष्टानां डि एन् ए परिणामः अनुकूलं चेत् पुनरन्वेषणं गौरवेण विधास्यते; अन्वेषणे सर्वकारस्य व्यवहारः न भवेदिति विधानसभायां गृहमन्त्रिणा प्रस्तुतम्।

 नरेन्द्रमोदी पुतिनं दूरवाण्या सम्भाषणमकरोत्। 

व्लादिमीर पुतिनः (वामे) नरेन्द्रमोदी च।

नवदिल्ली> रूसराष्ट्रस्य राष्ट्रपतिना व्लादिमीर पुतिनेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दूरवाणीद्वारा सम्भाषणमकरोत्। गतदिने अलास्कायां सम्पन्नायाः ट्रम्प-पुतिनयोः शान्तिचर्चायाः अनन्तरमासीत् इदं सम्भाषणम्। 

  अलास्काचर्चामधिकृत्य स्वस्यावलोकनं पुतिनः मोदिनमवोचदिति प्रधानमन्त्रिणः कार्यालयेन निगदितम्। चर्चायाः नयतन्त्रस्य  चाधारेण संघर्षः दूरीकरणीयः , शान्तिमवलम्ब्य चर्चा चालनीया   इति भारतस्य अभिमतं मोदिवर्यः पुनरावर्तितम्।

 गासायुद्धनिरासः 

ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः हमासेन अङ्गीकृतः। 

गासा सिटी> २२ मासाधिककालं यावत् इस्रयेलं प्रति अनुवर्तमानस्य युद्धस्य निराकरणाय मध्यस्थयोः ईजिप्त् -खत्तरराष्ट्रयोः नूतननिर्देशः अङ्गीकृतः इति  हमासेन निगदितम्। ६० दिनात्मकानां भुशुण्डिप्रयोगनिरासः, वारद्वयेन बन्धितानां मुक्तिः इत्येव नूतनः निर्देशः। शाश्वताय युद्धनिरासाय चर्चां कर्तुमारभ्यमाणः निर्देश इति वार्ताप्रतिनिधिः 'ए एफ् पि' इत्यनेन निगदितम्। 

  किन्तु अस्मिन् निर्देशं प्रति इस्रयेलस्य प्रतिस्पन्दः न बहिरागतः। हमासेन बन्धितेषु २५१ जनेषु कतिपयाः पूर्वं विमोचिताः। ४९ जनाः इदानीं हमासस्य सकाशे सन्ति। एषु २७ जनाः हताः इति इस्रयेलेन कथ्यते।

Monday, August 18, 2025

 सेलन्स्की-ट्रम्पमेलनम् अद्य। 

यूरोपीयराष्ट्रनेतारोSपि भागं कुर्वन्ति। 

ब्रसल्स्> रष्या-युक्रेनयुद्धं समापयितुं युक्रनस्य राष्ट्रपतिना वोलोदिमिर् सेलन्स्किना सह यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः कुर्वन्ती मध्यस्थचर्चा सोमवासरे वाषिङ्टणे विधास्यति। अतीते शुक्रवासरे रूसराष्ट्रपतिना व्लादिमिर् पुतिनेन सह कृता ट्रम्पस्य चर्चा पूर्णफलप्राप्तिं नागता। अतः सेलन्सिना सह चर्चा प्राधान्यमर्हति। 

  परन्तु अद्यतनचर्चायां ब्रिटनस्य प्रधानमन्त्री केय्र स्टामरः, फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणः, जर्मनस्य 'चान्सलरः', नाटो इत्यस्य कार्यदर्शी इत्यादयः अपि भागं करिष्यन्ति। युक्रेनस्य बहून् प्रदेशान् निगृह्य युद्धं समापयितुं पुतिनस्य राजनैतिकतन्त्रं वर्तते इत्याशङ्का यूरोपीयराष्ट्रनेतृषु अस्ति। अत एव तेषां भागभागित्वमिति सूच्यते।

 शुभांशवे जन्मराष्ट्रे हृद्यं स्वीकरणम्। 

शुभांशवे दिल्ल्यां लब्धं स्वीकरणम्। मुख्यमन्त्री रेखा गुप्ता, केन्द्रमन्त्री जितेन्द्रसिंहश्च समीपम्। 

नवदिल्ली> अन्ताराष्ट्र बहिराकाशनिलये स्वस्य दौत्यं पूर्तीकृत्य पृथ्विं प्रत्यागतः संघनेता भारतीयः शुभांशु शुक्लः जन्मदेशं प्राप्तवान्। गगनयानदौत्यसंघाङ्गः केरलीयः च प्रशान्त बालकृष्णन् नायर् इत्यनेन सह दिल्ल्याम् इन्दिरा गान्धी अन्तर्देशीयविमाननिलयं सम्प्राप्ताय  शुभांशवे हृद्यं स्वीकरणं प्रदत्तम्। 

  केन्द्रमन्त्री जितेन्द्रसिंहः, दिल्ली मुख्यमन्त्री रेखा गुप्ता, ऐ एस् आर् ओ संस्थाध्यक्षः वि नारायणः, शुभांशोः पत्नी काम्ना, पुत्रः कियाषुः इत्यादयः विमाननिलये शुभांशुं स्वीकर्तुं प्राप्तवन्तः। सोमवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृत्वा जन्मस्थानं लख्नौ प्रति गमिष्यति।

 सि पि राधाकृष्णः एन् डि ए सख्यस्य उपराष्ट्रपतिस्थानाशी। 

इदानीं महाराष्ट्रे राज्यपालः। 


नवदिल्ली> महाराष्ट्रस्य राज्यपालः तथा तमिलनाटे भा ज पा नेता च सि पि राधाकृष्णः [६७] एन् डि ए सख्यस्य उपराष्ट्रपतिस्थानाशिरूपेण चितः। रविवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्षे समाकारिते भाजपादलस्य संसदीयोपवेशनानन्तरं राष्ट्रियाध्यक्षः जे पि नड्डावर्यः राधाकृष्णस्य स्थानाशित्वम् उदघोषयत्। 

  तमिलनाटे तिरुपूरप्रदेशीयः सि पि राधाकृष्णः द्विवारं कोयम्पत्तूरमण्डलात् लोकसभासदस्यरूपेण चितः आसीत्। २०२३ तमे झार्खण्डस्य राज्यपाल आसीत्। २००४ तः २००७पर्यन्तं तमिलनाटे भाजपादलस्य राज्याध्यक्षः आसीत्।

Latest news

Sunday, August 17, 2025

 केरले अतितीव्रवृष्टिः।

कोच्ची> केरलस्य मध्योत्तरजनपदेषु दिनद्वयेन अतिवृष्टिः अनुवर्तते। बहवः प्रदेशाः जलनिमग्नाः जाताः। 

 वयनाट्, कण्णूर्, कासरगोड् जनपदेषु रविवासरे ओरञ्च् जागरूकतानिर्देशः कल्पितः। इतरेषु पीतजागरूकता विधत्ता। वयनाटे बाणासुरसागरसेतुः जलपूरितः इत्यनेन  जलनिर्गमनमार्गाः उद्घाटिताः। एरणाकुलं जनपदे पेरियार् नद्यां जलवितानं उच्चमभवत्।

 ट्रम्प-पुतिनयोः उच्चशिखरमेलनम्। 

युक्रेनप्रकरणे निर्णयो नाभवत्। 

उच्चशिखरमेलनाय अलास्का प्राप्तं पुतिनं ट्रम्पः स्वीकरोति। 

आङ्करेज्> विश्वराष्ट्रैः आकांङ्क्षया पर्यवलोकितं ट्रम्प-पुतिनयोः युक्रैनप्रकरणमधिकृत्य उच्चशिखरमेलनं निष्प्रयोजनमभवत्।  यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः, रूसराष्ट्रस्य राष्ट्रपतिः व्लादिमिर् पुतिनः च मिथः गतदिने अलास्कायां  सम्पन्ने उच्चशिखरमेलने युक्रेनप्रकरणे शान्तिनिर्णयः नाभवत्। 

  अन्तिमसन्धिः नाभवत्तर्हि अपि चर्चायां क्रियात्मकः प्रगतिः जातः, परस्परचर्चा अनुवर्तिष्यते  इति होरात्रयं दीर्घितस्य मेलनस्य अनन्तरं विधत्ते संयुक्तप्रस्तावे नेतारौ प्रोक्तवन्तौ। अचिरेण लक्ष्यं प्राप्स्यतीति शुभाप्तिविश्वासश्च प्रकटितः।

 चीनस्य विदेशकार्यमन्त्री श्वः भारते। 

नवदिल्ली> सीमाविषये भारतस्य सुरक्षा उपदेष्टा अजित डोवलः इत्यनेन सह चर्चां कर्तुं चीनस्य विदेशकार्यमन्त्री वाङ् यि नामकः सोमवासरे भारतं प्राप्स्यति। सीमाप्रकरणे द्वितीयवारचर्चा एव भारते सम्पत्स्यते। सीमासमस्यापरिहाराय द्वाभ्यां राष्ट्राभ्यां चितौ प्रतिनिधी भवतः डोवलः वाङ् यि च।

 भारत-पाकिस्थानसंघर्षस्य समाप्तेः कारणम् अहमिति पुनः ट्रम्पः। 

डोनाल्ड ट्रम्पः। 

अलास्का> ओपरेषन् सिन्दूरस्य अंशतया जातः भारत-पाकिस्थानसंघर्षः आत्मनः व्यवहारेणैव समाप्तिं प्राप इति आवर्तनेन प्रस्तूयन् यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः। अलास्कायां रष्यायाः राष्ट्रपतिना व्लादिमिर् पुतिनेन सह युक्रैनप्रकरणे शान्तिचर्चायाः अनन्तरं वार्तामाध्यमाय दत्ते अभिमुखे आसीत् ट्रम्पस्य आत्मप्रशंसा। स्वस्य व्यवहारः नाभविष्यत् तर्हि भारत-पाकिस्थानसंघर्षः  आणवयुद्धपर्यन्तं प्राप्येत इति 'फोक्स् न्यूस्' नामकवार्तामाध्यमाय दत्ते मुखामुखे ट्रम्पः अवदत्।

 पाकिस्थाने आकस्मिकप्रलयः

मरणानि ३०७ अभवन्। 

पेषवार्> अतितीव्रवृष्टिकारणात् पाकिस्थानस्य खैबर् पक्तूनप्रदेशे  दुरापन्ने आकस्मिकप्रलये भूस्खलने च मृतानां संख्या ३०७ अभवत्। मृतेषु १३ बालकाः अन्तर्भवन्ति। 

  ४८ होराणामाभ्यन्तरे अस्ति एतावदधिके जनाः मृत्युमुपगताः। २३ जनाः आहताः। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि आरब्धानि। वृष्टिः आगस्ट् २१ दिनाङ्कपर्यन्तम् अनुवर्तिष्यते इति तत्रस्थेन पर्यावरणविभागेन निगदितम्। 

  बजौर्, बुणेर्, स्वात्, मनेह्रा, षाङ्ला, तोर्घर्, बडाग्राम् इत्येषु जनपदेषु वृष्टिदुष्प्रभावः कठिनतया दृश्यते।

Saturday, August 16, 2025

 पाकिस्थाने वृष्टिदुष्प्रभावः।

आकस्मिकप्रलये २०० जनाः विनष्टप्राणाः अभवन्।

इस्लामबादः> अतिवृष्टेः दुष्प्रभावेन पाकिस्थाने महान् दुरन्तः। आकस्मिकप्रलयेन, भूविच्छेदेन च उत्तरपाकिस्थाने १९४ जनाः मृत्युमुपगताः इति निर्णीताः। बहवः तिरोभूताः जाताः। २४ होराभ्यन्तरे एव एवंप्रकारदुरन्तः आपन्नः। 

  अफ्गानिस्थानस्य सीमासमीपे खैबर् पक्तूनप्रान्ते पर्वतोपान्तप्रदेशे अस्ति कठिनः वृष्टिदुष्प्रभावः। अत्र १५० अधिके जनाः मृताः। पाकिस्थानस्याधीने वर्तमाने काश्मीरे नव जनाः मृत्युमुपगताः। जब्रारीनामकः ग्रामः मेघविस्फोटनानन्तरं जातायामतिवृष्ट्यां मग्नोSभूत्। बजौर्, अबोट्टाबादः, खैबर् लोवर् दिर् इत्येषु स्थानेषु भूविच्छेदेन असंख्यं गृहाणि विशीर्णानि।

 दिल्यां 'दर्गा'याः भित्तिका सन्निपत्य ५ जनाः मृताः। 

नवदिल्ली> मुगलचक्रवर्तिनः हूमयूणस्य शवकुटीरस्यसमीपं वर्तमानस्य दर्गामन्दिरस्य  भित्तिका सन्निपत्य पञ्च जनाः मृत्युमुपगताः। तिस्रः महिलाः द्वौ पुरुषौ च मृताः। 

  शुक्रवासरे मध्याह्नानन्तरमासीत् दुर्घटना।  प्रार्थनां कर्तुं दर्गामन्दिरं प्राप्तवन्तः एव दुरन्ताधीनाः जाताः। भञ्जितस्य मन्दिरस्य अवशिष्टेभ्यः उपदश जनाः क्षतैः आतुरालयं नीताः।

 राष्ट्रे स्वतन्त्रतादिनम् आमानितम्।

रक्तदुर्गे प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रध्वजमुन्नयति।

नवदिल्ली> भारतस्य ७९ तमं स्वतन्त्रतादिनं विविधैः कार्यक्रमैः आराष्ट्रम् आमानितम्। नवदिल्यां 'रेड् फोर्ट्' [रक्तदुर्गः]  इत्यत्र प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रध्वजम् उन्नीतवान्। ततः पूर्वं मोदिवर्यः राजघट्टं प्राप्य महात्मागान्धिनः स्मृतिमण्डपे पुष्पाञ्जलिं समार्पयत्। 

  रक्तदुर्गस्था वेदिका ओपरेषन् सिन्दूरं,विकसितभारतम् इत्यादिप्रकरणाधिष्ठितैः कलारूपैः अलङ्कृता आसीत्। स्थल-नौ-वायु-तटसंरक्षणसेनाविभागानां संघाः पथसञ्चलनम् अकुर्वन्। पञ्चसहस्राधिके आमन्त्रितातिथयः स्वतन्त्रतादिनोत्सवदर्शनाय प्राप्तवन्तः। 

  प्रधानमन्त्रिणः स्वतन्त्रतादिनभाषणं राष्ट्रविकासः, देशसुरक्षा, प्रजाक्षेमः, स्वपर्याप्तता, यूनां वृत्यवकाशः इत्यादिभिः विषयैः सम्पन्नमासीत्। प्रभाषणं १०३ निमेषं यावत् दीर्घितमासीत्। अनुस्यूततया १२ तमं प्रभाषणमासीत् अस्मिन् वर्षे रक्तदुर्गे सम्पन्नम्।

Friday, August 15, 2025

 स्वतन्त्रतादिनोत्सवः। 

चतुर्भ्यः सैनिकेभ्यः  कीर्तिचक्रं लभन्ते; पञ्चदशभ्यः  वीरचक्रं च। 

नवदिल्ली> भारतस्य ७९ तमस्वतन्त्रतादिनाचरणस्य अङ्गतया सैनिकपुरस्काराः राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उद्घोषिताः। 

  १२७ सैनिकाः धीरतायै दीयमानाय पुरस्काराय अर्हाः अभवन्। ४० सेनाप्रमुखाः विशिष्टसेवापुरस्कारान् प्राप्तवन्तः। एषु चत्वारः कीर्तिचक्रपुरस्कारेण विशिष्टाः भवन्ति।  १५ सैनिकाः वीरचक्रेण, २६ सैनिकाः शौर्यचक्रेण च आमानिताः।

 बिहारस्य संगृहीतमतदायकावलिः 

अपनीतानां वृत्तान्ताः प्रकाशयितव्याः - सर्वोच्चन्यायालयः। 

नवदिल्ली> तीव्रमतदायकावलीपरिष्करणस्य [SIR] अंशतया निर्वाचनायोगेन आगस्ट् प्रथमदिनाङ्के  प्रसिद्धीकृतात् संगृहीतमतदायकावलेः निष्कासितानां ६५ लक्षं मतदायकानां वृत्तान्तान् प्रसिद्धीकर्तुं सर्वोच्चन्यायालयेन निर्दिष्टम्। निष्कासनस्य कारणमपि सूचितव्यम्। 

  अपसारितानां सूचनाः आगामिकुजवासरात्पूर्वं प्रकाशयितव्याः इति न्यायाधीशः सूर्यकान्तः, न्यायाधीशः जोय् मल्या बाग्चि इत्येतयोः नीतिपीठेन निर्दिष्टम्। प्रकरणमिदं आगामिशुक्रवासरं प्रति परिवर्तितम्।

  यदि वृत्तान्ताः प्रसिद्धीक्रियन्ते तर्हि निर्वाचनायोगं विरुध्य प्रचारः  समापयिष्यतीति न्याया. जोय् मल्या वर्येण सूचितम्।

 जम्मु-काश्मीरे महामेघविस्फोटनम्।

४६ जनाः मृत्युमुपगताः।

दुरन्तस्थानात् मृतशरीराणि अपनीयन्ते। 

श्रीनगरं> जम्मु-काश्मीरस्य किष्त्वार् जनपदस्थे चिसोतिनामके ग्रामे गुरुवासरे मध्याह्ने दुरापन्ने महति मेघविस्फोटने तदनन्तरं जाते गभीरे गिरिजलपाते ४६ जनाः मृताः। द्विशताधिके जनाः तिरोभूताः। १२० अधिके क्षताः जाताः। मृतेषु द्वौ सि ऐ एस् एफ् भटौ अन्तर्भूतौ इति सूच्यते। 

  मच्चैल् मातृमन्दिरं प्रति गमनमार्गे आसीदयं दुरन्तः। तीर्थाटनमार्गः विनश्य अत्यन्तं तुमुलोSभवत्। तीर्थाटनं स्थगितं कारितम्। 

  राष्ट्रियदुरन्तनिवारणसेनायाः सङ्घद्वयं उधंपुरतः किष्त्वारं प्रति प्रेषितम्। शताधिके जनाः सुरक्षितस्थानं नीताः इति रक्षाप्रवर्तकैः निगदितम्। 

  गिरेः अधित्यकायां वर्तितानां ग्रामवासिनां गृहाणामुपरि प्रलयजलं पङ्क-शिलाखण्ड-वृक्षखण्डैः सहितं पतितम्। प्रदेशमासकलं मृदाच्छादितमभवत्।

Thursday, August 14, 2025

आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति। 

   सण्-मैक्रोसिस्टम्स् (Sun Microsystems) नामकस्य विश्वविश्रुतस्य तन्त्रज्ञानसंस्थानस्य सहसंस्थापकः प्रसिद्धः उद्यमधनपतिश्च खोस्ला विनोदः महतीं भविष्यद्वाणीम् अकरोत् । स अवदत् यद् आगामिषु त्रिषु वा पञ्चसु वा संवत्सरेषु कृत्रिमबुद्धिमत्ता मानवानाम् अशीतिप्रतिशतं कर्माणि स्वयमेव करिष्यति । तेन मानवानां कर्मलोपो भवेत्।

नवदिल्यां प्रवृत्ते प्रैम्स्ट्याक्-सम्मेलने (Primestack Conference) भाषमाणः स इमं विचारं प्राकटयत् । तस्य मतेन न केवलं सामान्यानि कर्माणि अपि तु यावन्ति विशेषज्ञानानि अपेक्षितानि कर्माणि सन्ति तान्यपि अनेन यन्त्रपुरुषेण अपहरिष्यन्ते । 

 खोस्लाविनोदः कथयति यद् एषा न कापि भीतिः अपितु महानवसर एव वर्तते । तस्य आशयः अयमस्ति यत् यदा कृत्रिमप्रज्ञा बौद्धिककार्याणि करिष्यति तदा मानवाः अधिकसृजनात्मकेषु कार्येषु स्वकीयं समयं प्रयोक्तुं शक्ष्यन्ते ॥


यथा पूर्वस्मिन् काले यन्त्राणि शारीरिकश्रमम् अपाहरन् तथैवेदानीं कृत्रिमबुद्धिमत्ता बौद्धिकश्रमम् अपहरिष्यति । किन्तु अस्य परिवर्तनस्य गतिः पूर्वस्मात् अतीव वेगवती भविष्यति प्रभावश्चापि सुविशालः। केचन चिन्तयन्ति यत् लुप्तानां कर्मणां स्थाने नूतनानि कर्माणि उत्पत्स्यन्ते । खोस्लाविनोदस्तु एतं विचारं पूर्णतया न अङ्गीकरोति । तस्य मतेन कर्मणः स्वरूपमेव परिवर्तते न तु केवलं सङ्ख्या ॥


चैट्-जीपीटी (ChatGPT) इत्यादीनां कृत्रिमप्रज्ञासाधनानाम् उदयः अस्य भविष्यकथनस्य प्रत्यक्षं प्रमाणम् । अतः कृत्रि मबुद्धिमत्तया सह कार्यं कर्तुं ये कुशलाः भविष्यन्ति तेषामेव भविष्यम् उज्ज्वलम् इति तस्य कथनस्य सारः ॥

 इस्रयेलाक्रमणम् 

गासा सिटीमध्ये २४ होराभ्यन्तरे १२३ मरणानि। 

जरुसलेमः> गासामभिभवितुम् उद्दिश्य  प्रथमतया निगृहीतुं निश्चिते गासासिटीप्रदेशे इस्रयेलेन कृते व्योमाक्रमणे २४ होराभ्यन्तरे १२३ जनाः विनष्टप्राणाः अभवन्। 

  एतावत्समयाभ्यन्तरे एतावदधिके जनाः मृत्युमुपगताः इति सप्ताहाभ्यन्तरे प्रथममेव। एतदतिरिच्य भोज्यवितरणकेन्द्रं प्रति गमने २५ पालस्तीनीयाः इस्रयेलसेनायाः भुषुण्डिप्रयोगेण मृताः।

 प्रधानमन्त्रिणः सूर्यघर्योजना अग्रे सरति॥

  राष्ट्रियकल्याणं पुरस्कृत्य प्रधानमन्त्रिणा प्रवर्तिता 'प्रधानमन्त्रिसूर्यघर्-मुक्तविद्युद्योजना' महता वेगेन देशेऽस्मिन् अग्रेसरतीति केन्द्रसर्वकारेण विज्ञापितम् ॥ अस्याः कारणेन गृहेषु सौरोर्ज्वयन्त्राणां संस्थापनद्वारा नागरिकाः प्रतिमासं त्रिशतमात्रकपर्यन्तं विद्युदूर्ज्वं निःशुल्कं प्राप्नुवन्ति ॥


  चतुर्विंशत्युत्तरद्विसहस्रतमस्य वर्षस्य फेब्रुवरीमासे प्रारब्धा भवति इयं योजना। द्विसहस्रषड्विंशति-सप्तविंशतितमवित्तीयवर्षाभ्यन्तरे राष्ट्रस्य कोटिपरिमितेषु गृहेषु सौरोर्ज्वप्रणाल्याः संस्थापनं कार्यमित्यस्ति योजनायाः मुख्यलक्ष्यम्॥ एतत्कार्यसिद्धये सर्वकारेण पञ्चसप्ततिसहस्रैकविंशतिकोटिरूप्यकाणां विशाला धनराशिरनुमोदिता ॥ गृहेषु एककिलो वाट्तः त्रिकिलो-वाट्क्षमतायुक्तानां यन्त्राणां संस्थापनाय त्रिंशत्सहस्ररूप्यकाणि यावद् अष्टसप्ततिसहस्ररूप्यकाणि अनुदानं प्रदीयते ॥

 अद्यतनवृत्तानुसारम् अष्टपञ्चाशल्लक्षाधिकेषु प्राप्तनिवेदनेषु षोडशलक्षपञ्चाशत्सहस्रगृहेषु सौरोर्ज्वसंस्थापनकार्यं पूर्तिमगमत् ॥ राज्येषु च महाराष्ट्रराज्यं (२,३४,७३६) गुर्जरप्रदेशः (२,२८,५०७) उत्तरप्रदेशश्च (१,२०,८६६) क्रमशः प्रथमद्वितीयतृतीयस्थानेषु विराजन्ते ॥


  अस्यां योजनायाम् अल्पवृद्धिना सह ऋणसौविध्यं विद्युद्वितरणसंस्थानानि (DISCOM) माध्यमेन सुलभा संस्थापनप्रक्रिया तथा नेट्-मीटरिङ्ग् (Net Metering) व्यवस्थेत्यादयोऽपि लाभाः सन्ति ॥ अधिकविवरणाय पञ्जीकरणाय च www.pmsuryaghar.gov.in इति सर्वकारीयं जालस्थानं नागरिका अवलोकयेयुः ॥

  विज्ञाः शास्त्रज्ञाश्चाभिप्रयन्ति यद् एतेन सौरोर्ज्वप्रसारेण न केवलं गृहस्थानां विद्युद्व्ययभारो लघूभविष्यति अपि तु पर्यावरणहानिकरस्य अङ्गाराम्लवायोः उत्सर्जनमपि नियन्त्रितं भविष्यति ॥