इस्रयेलाक्रमणम्
गासा सिटीमध्ये २४ होराभ्यन्तरे १२३ मरणानि।
जरुसलेमः> गासामभिभवितुम् उद्दिश्य प्रथमतया निगृहीतुं निश्चिते गासासिटीप्रदेशे इस्रयेलेन कृते व्योमाक्रमणे २४ होराभ्यन्तरे १२३ जनाः विनष्टप्राणाः अभवन्।
एतावत्समयाभ्यन्तरे एतावदधिके जनाः मृत्युमुपगताः इति सप्ताहाभ्यन्तरे प्रथममेव। एतदतिरिच्य भोज्यवितरणकेन्द्रं प्रति गमने २५ पालस्तीनीयाः इस्रयेलसेनायाः भुषुण्डिप्रयोगेण मृताः।