शुभांशुः मोदिनं मिलितवान्।
चर्चायां गगनयानयोजना अपि।
नवदिल्ली> अन्ताराष्ट्रबहिराकाशनिलये स्वदौत्यं पूर्तीकृत्य भारतं प्रत्यागतवान् शुभांशु शुक्लः प्रधानमन्त्रिणं नरेन्द्रमोदिनं मिलितवान्। प्रधानमन्त्री शुभांशुं समालिंग्य स्वीकृतवान्।
गगनयानदौत्यमधिकृत्य उभावपि चर्चितवन्तौ इति परं मोदिवर्यः 'एक्स्' समाजमाध्यमे लिखितवान्।